पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22--25. 1. सटीकामरकोशस्थ [ नाट्यवर्ग: ॥ शब्दे निनादनिनदध्वनिध्वानरवखनाः ॥ २२ स्वाननिर्घोषनिदनादनि स्वान निस्वनाः || आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥ स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् || निक्काणो निकणः काणः कणः कणनमित्यपि ॥ २४ ॥ वीणायाः कणिते प्रादेः प्रकाणप्रकणादयः || कोलाहलः कलकलस्तिरां वाशितं रुतम् || स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ॥ २५ ॥ ॥ इति शब्दादिवर्गः ॥ ६॥ निषादर्षभगान्धारषड्जमध्यमघैवताः ॥ पञ्चमोत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥ १ ॥ तद्वति सत्यवति त्रिषु । यथा सत्या स्त्री सत्यः पुमान् सत्यं कुलमिति | शब्दः निनाद: निनदः ध्वनिः ध्वानः रवः स्वनः ॥ २२ ॥ स्वानः निर्घोषः निर्झदः नाद: निखानः निखनः आरवः आरावः संराव: विराव: सप्तदश शब्दमात्रस्य । वस्त्रपर्णानां स्खनिते शब्दे मर्मर इत्येकम् । “ मर्मरो वस्त्रभेदे च शुष्कपर्णध्वनौ तथा । पुंसि स्त्रियां पुनः प्रोक्ता मर्मरी पीतदारुणि" इति मेदिनी ||२३|| भूषणानां नूपुरादीनां स्खनिते शिञ्जितमित्येकम् । “तालव्यादि ” । निकाणः निक्कणः काणः कणः कणनं पञ्च वीणादिस्वनितस्य || २४ || प्रादेरुपसर्गात् ये प्राणः प्रण इत्यादयस्ते वीणाया एव कणिते नान्यत्र | आदिशब्दादुपकणादयः । कोलाहलः कलकलः द्वे बहुभिः कृतस्य स्पष्टशब्दस्य | तिरक्षां पक्षिणां रुतं शब्दः वाशितं एकम् । तालव्यमध्योऽयम् । प्रतिश्रुत् प्रतिध्वानः द्वे प्रतिशब्दस्य । गीतं गानं॑ द्वे गायनस्य ||२५|| इति शब्दादिवर्गः।।६।। स्वरभेदानाह। निषादः । “निषादः स्वरभे देऽपि चण्डाले धीवरान्तरे” इति विश्वः । ऋषभः गान्धारः षड्डः । “नासां कण्ठमुर- स्तालु जिह्वां दन्तांथ संस्पृशन् । षड्जः स जायते यस्मात्तस्मात्पभइति स्मृतः” । मध्यमः धैवतः पश्चमः इत्यमी तन्त्रीभ्यः कण्ठेभ्यश्रोत्थिताः सप्त स्वरा ज्ञेयाः एकैकम् । सत्र निषाद नर्दन्ति गजाः । ऋषभं गावः । गान्धारं अजादयः । शङ्खं मयूराः । Diglized by Google i i !