पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14-18 सटीकामरकोशस्य [ शब्दादिवर्गः तत्र त्वाक्षारणां यः स्यादाक्रोशो मैथुनं प्रति || स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ॥ १५ ॥ अनुलापो मुहुर्भाषा विलापः परिदेवनम् ॥ विमलापो विरोधोक्तिः संलापो भाषणं मिथः ।। १६ ।। सुप्रलापः सुवचनमपलापस्तु निह्नवः | (“चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा || अस्त्रीचाटुचटुश्लाघा प्रेम्णामिथ्याविकत्थनम् ||१||”) ( १ ) संदेशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥ रुशती वागकल्याणी स्यात्कँल्या तु शुभात्मिका ॥ अत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् ।। १८ ।। ॥ १४ ॥ मैथुनं प्रति परस्त्री पुरुषसंयोगेन निमित्तेन य आक्रोशस्तत्र आक्षारणे- त्येकम् । आक्षारणमिति क्लीनमपि । आभाषण आलाप: द्वे अन्योन्यसंबोध- नपूर्वकभाषणस्य । यदनर्थकं वचः स अलापः इत्येकम् ॥ १५ ॥ अनुलापः मुहु- र्भाषा द्वे बहुशो भाषणस्य । विलापः परिदेवनं द्वे रोदनपूर्वकभाषणस्य । विप्र- लापः विरोधोक्तिः द्वे अन्योन्यविरुद्धभाषणस्य । मिथ: परस्परं उक्तिप्रत्युक्ति- युक्तं यद्भाषणं स संलापः । आलापस्तु एकेनापि क्रियते ॥ १६ ॥ सुप्रलापः सुवचनं द्वे सुभाषितस्य । अपलापः निहवः द्वे गोपनकारिवचनस्य । यथा तन्मि- ध्येति प्रतिवादिनि निहवः | चोद्यादित्रयमद्भुतप्रश्नस्य | शापादित्रयं शाप- वचनस्य | चाद्विति त्रयं प्रेम्णा मिथ्याभाषणस्य | संदेशवाक् वाचिकं द्वे दूता- दिमुखेन संदिश्यमानवचनस्य | उत्तरे अतः परं वक्ष्यमाणाः वाग्भेदाः रुशत्या- दयः सम्यगन्तास्त्रिषु त्रिलिङ्काः || १७ || यथा रुशन् शब्दः रुशद्वचनम् | या अक- ल्याणी बाक् सा रुशती एक तान्तम् । या शुभात्मिका वाक् सा कल्या "काल्यापि " .एकं तालव्यान्तम् । यदतिशयेन मधुरं तत्सान्त्वं एकम् । संगत हृदयंगम द्वे संब- द्धवचनस्य ॥ १८ ॥ निष्ठुरं परुष द्वे कर्कशवचनस्य । ग्राम्य अश्लीलं द्वे शिथि लवचसः । अश्रीकारकभण्डादिवचस इत्यर्थः । यत्मियं सत्यं वचनं तत्र सून्- तमित्येकम् । तदुक्तं रभसे । “सूनृतं मङ्गलेऽपि स्यात्प्रियसत्ये वचस्यपि । यत्पर- . १ इदं पथं तालपत्र पुस्तकेऽपि नास्ति || Diglized by Google