पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42-44 ३७४ सटीकामरकोशस्य [ लिंगादिसंग्रहवर्ग: परं लिङ्गं स्वप्रघाने बन्दे तत्पुरुषेऽपि तत् ॥ ४२ ॥ अर्थान्ताः प्राद्यलंप्रासापन्नपूर्वाः परोपगाः || तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः ॥ ४३ ॥ बहुब्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् ॥ गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः ॥ ४४ ॥ 6 कुकुटमयूर्याविमे | मयूरीकुकुटाविमौ | तत्पुरुषे यथा | धान्येनार्थो धान्यार्थः । सर्पानीतिः सर्पभीतिः । सर्पमयम् | वाप्यः ॥ ४२ ॥ उक्तस्य तत्पुरुष- लिङ्गस्यापवादमाह । अर्थेति । अर्थान्तशब्दाः परोपगाः परगामिनः वाच्य- लिना इत्यर्थः । यथा । द्विजायायं द्विजार्थ: सूपः । द्विजार्था यवागूः | द्विजार्थं पयः । अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यमिति वार्तिकम् । प्रेति । प्राथलंप्राप्तापअपूर्वाः परोपगा: । " परं विशेष्यमुपग- चन्तीत्यर्थः" । तत्र प्रादिपूर्वो यथा । अतिक्रान्तो मालामतिमालो हर | अतिक्रान्ता मालामतिमालेयम् । अतिमालमिदम् । अवक्रुष्ट: कोकिलया अबकोकिलः | अलंपूर्वो यथा | अलंकुमार्यै इत्यलंकुमारिरयम् | अलंकुमा- रिरियम् अलंकुमारि इदम् । प्राप्तजीविको द्विजः । प्राप्तजीविका स्त्री । प्राप्तजीविकमिदम् । एवमापनजीविकः । तद्धितार्थो द्विगुर्वाध्यलिङ्गः । पञ्च- कपालः पुरोडाशः । पञ्चकपालं हविः । संख्याशब्दाः सर्वनामसंज्ञकास्तदन्त- का परलिङ्गभाजः । संख्या यथा । एकः पुमान् । एकं कुलम् । द्वौ पुमांसौ । द्वे त्रिय कुले च | " त्रयः पुरुषाः | तिस्रः स्त्रियः । त्रीणि कुलानि । एवं चत्वारः चतस्रः चत्वारि " | पद्संज्ञकान्वक्ष्यति । विंशत्या- दीनां लिङ्गं द्वितीयकाण्डे उक्तम् । शतादिकानां तु नपुंसकसंग्रहे । सर्वनाम यथा । सर्वो देशः । सर्वा नदी । सर्वे जलम् । एवं परः पुमान् । " संख्या- न्तको यथा | ऊनत्रयः । ऊनतिस्रः । ऊनत्रीणि " । सर्वनामान्तको यथा । परमसर्वः । परमसर्वा । परमसर्वम् ॥ ४३ ॥ अदिसूनाम्नां बहुव्रीहिरन्थलि - क्रमाक् । तदुदाहरणं स्वयमुनेयम् | यथा । वृद्धा भार्या यस्य स वृद्धमार्यः । बहुधनः । बहुधना । “बहुधनमित्यादि " । अदिनानामिति किम् । दक्षि- णस्याः पूर्वस्याच दिशोरन्तरालं दिक् दक्षिणपूर्वा । दिनामान्यन्तराले इत्यनेनात्र बहुव्रीहिः । गुणयोगेन द्रव्ययोगेन क्रियायोगेन च य उपाधिर्विशेषणं तेन धर्मिणि प्रवृत्चास्ते धर्मिलिङ्गभाजः । गुणयोगेन यथा । गन्धवती पृथ्वी । Digtized by Google