पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५] तृतीयं काण्डम्. कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि ॥ अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥ षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् || परं विरोघे शेषं तु ज्ञेयं शिष्टप्रयोगतः || ४६ ॥ ॥ इति लिङ्गादिसंग्रहवर्गः ॥ ५ ॥ 44-46 गन्धवानश्मा | गन्धवक्कुसुमम् | द्रव्ययोगेन यथा | दण्डिनी स्त्री | क्रियायोगेन यथा । पाचिका स्त्री । गुणद्रव्यक्रियायोगोपाधयः परगामिन इति पाठा- न्तरम् ॥ ४४ ॥ असंज्ञायां कर्तरि कृत्प्रत्ययाः परोपगाः । यथा । करोतीति कर्त्री । कर्ता पुमान् | कर्तृ कलत्रम् | असंज्ञायां किम् । प्रजा । हरिः । कर्तरि किम् । कृतिः । कर्मणि कर्तरि व वर्तमानाः कृत्यप्रत्ययाः परगामिनः । कर्मणि यथा । कर्तव्या भक्तिः । कर्तव्यो धर्मस्त्वया । कर्तरि यथा । बस- तीति वास्तव्योऽयम् । वास्तव्या सा | वास्तव्यं तत् । कर्तरि कर्मणीति किम् । भावे तु एघितव्यं त्वया । तेन रक्तमित्याद्यर्थे अणादितद्वितप्रत्य- यान्ता नानार्थभेदका अनेकार्थविशेषणभूताः विशिष्टत्वाद्वाच्यलिङ्गा इत्यर्थः । यथा कुसुम्मेन रक्ता शाटी कौसुम्भी । कौसुम्भः पटः । कौसुम्भं वासः । तेन रक्तं रागादित्यण् । रक्तावर्थ इत्यादिशब्दान्मथुराया आगतो माथुरोऽयम् । इयं माथुरी | अणाद्यन्ता इत्यादिशन्दाग्रामे भवा ग्राम्या स्त्री | ग्राम्यः पुमान् । अत्र यत्प्रत्ययः ॥ ४५ ॥ षसंज्ञकाः षान्तनान्तसंख्या कतिशब्दय त्रिलियां समाः सरूपा नित्यं बहुषु वर्तमाना अतो बहुवचनान्ताचेत्यर्थः । यथा । षडिमे । षडिमाः। षडिमानि । पञ्चभिरेताभिः । कति पुमांसः । कति स्त्रियः । कति कुलानि । युष्मदसच्छन्द: तिङन्तपदाम्यव्ययानि च त्रिषु समानि लिङ्गकृतविशेषरहितानीत्यर्थः । युष्मच्छब्दो यथा । त्वं स्त्री | त्वं पुमान् | त्वं कलत्रम् | असच्छब्दो यथा । आवां पुमांसौ । आवां स्त्रियौ । आषां कलत्रे । तिङ् यथा । स्थाली भवति । घटो भवति । पात्रं भवति । एवं दारा भवन्तीत्यादि । अव्ययं यथा | उच्चैः दाराः | उचैः स्त्री । उचैः कलत्रम् | उच्चैः प्रासाद इत्यादि । परमिति | विरोधे विप्रतिषेधे सति पर लिङ्गानुश्चा- सर्न प्रवर्तते । यथा । मानुषशब्दस्य कषणभमरोपान्ता इति प्रामुक्तविधिना पुंस्त्वे एव प्राप्ते सति द्विचतुःपपदेत्यनेनोत्तरत्रोक्तेन स्त्रीपुंसविधिर्निधेयः | यथा । मानुषीयम् । मानुषोऽयमिति । शेषमिति | शेषमत्रानुक्तम् अभिषा- । Dightized by Google 1