पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं काण्डम्. यन्कमसिसुसन्नन्तं यदनान्तमकर्तरि ॥ २४ ॥ त्रान्तं सलोपत्रं शिष्टं रात्रं प्राक्संख्ययान्वितम् || पात्रायदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः ॥ २५ ॥ दन्यैकत्वाव्ययीभावौ पथः संख्याव्ययात्परः ।। [५] ३६७ क्रमादशगुणोत्तरम्” इति रखकोशः । असन्तमिसन्तनुसन्तमन्नन्तं च यत् व्यकं द्विस्वरं तत् क्लीगे । असन्तं यथा । पयः मनः | इसन्तं यथा । सर्पिः ज्योतिः । उसन्तं यथा । वपुः यजुरित्यादि । अनन्तं यथा । चर्म शर्म सामेत्यादि । अने- नैन कीवस्ये सिद्धे परतो यन्मर्मशम्दोपादानं तदस्यानित्यत्वज्ञापनार्थम् । वेन "गुणान्धकारशोकेषु वमो राहौ पुमानयस्" इत्यायपि सिद्धस् | अकर्तरि कर्तुरन्यत्र बदनान्तं अनेत्यन्ते यस्य तत्लीबे । यथा । गमनम् । मरणम् | दानम् । करणम् । वरणम् | अकर्तरीति किम् | इध्मब्रशनः कुठारः । नन्दयतीति नन्दनः रमणः ॥ २४ ॥ त्रान्तं क्लीने यथा । पात्रं बहित्रं वज्रं गात्रमित्यादि । सकारी लकारो वा उपघा अन्त्यात्पूर्वी यस्य तत् सलोपघम् । सोपधं यथा | बिसम् | अन्धत- मसम् | लोपधं यथा । कुलं मूलमित्यादि । शिष्टमिति । यदवशिष्टं प्रागुक्ताद- न्यत् तच प्रागुक्तम् । यदबाधितं तदपि त्रान्तादिकं क्लीबे इत्यर्थः । शिष्ट- मिति किम् । पुत्रः वृ॒त्रः हंसः कंसः पनसः शिला कालः गलः | संख्यापूर्वी रात्रशब्दः क्लीषे ! “रात्राहाहाः पुंसि” इति पुंस्त्वप्राप्तेरपवादोऽयम् । “संख्यापूर्वी रात्रं लीबम्” इति वार्तिकं रात्राहाहा इत्यस्य बाधकम् । त्रिराजम् | पञ्चरात्रम् | संख्ययेति किम् । अर्धरात्रः मध्यरात्रः । पात्रादिभिरदन्तैरेकार्थी यो द्विगुः स क्लीषे | पञ्चरात्रम् | आदिना चतुर्युगम् । लक्ष्यानुसारतः शिष्टप्रयोगानुग- मेनेत्यर्थः । अनेन पञ्चमूली त्रिलोकीस्थादिरपवादः । एकार्थः किम् | पञ्चक- पालः पुरोडाशः । द्विगुरयं तद्धितार्थः ॥ २५ ॥ इन्द्वसमासस्यैकत्वं अव्ययी- भावभ क्लीबे । द्वन्द्वैक्यं यथा । पाणिपादम् । शिरोग्रीषम् । मार्दङ्गिकपाणनि- कम् । अव्ययीभावो यथा । अघिसि । उपगङ्गम् । संख्याया अव्ययाच परः पथः क्लीने | यथा । द्विपथम् | त्रयाणां पथां समाहारखिपथम् | चतुष्पथम् । अव्ययाद्यथा । विपथम् । कापथम् । संख्याव्ययादिति किम् । धर्मपथः । योग- पथः । पथ इति समासान्तानुकरणम् । समासे षष्ठीविभक्त्यन्तात्परा छाया लीबे । “छाया बाहुल्पे” इति पाणिनिसूत्रम् । सा चेहूनां संबन्धिनी तर्फेव सदुदाहरति । Digized by Google 24-25