पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

17-19 सटीकासरकोचालय [ लिंगादिसंग्रहवर्ग: पुढो न्यूकः समुद्रश्य विटपट्टघटाः खटाः ॥ १७ ॥ कोट्टारघट्टहट्टाच पिण्डगोण्डपिचण्डवत् || गडः करण्डो लगुडो वरण्डच किणो पुणः ॥ १८ ॥ हतिसीमन्तहरितो रोमन्थोद्गीयबुहुदाः ॥ कासमोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ ॥ १९ ॥ "खटस्तुणे कफे। टक्केऽन्धकूपे प्रहारे " इति हैमः ॥ १७ ॥ कोट्टो दुर्गप्पुरम् । अरषट्टः कूपभेदः । “अरैथक्रावयवसदृशैः काष्ठविशेषैर्घव्यते रच्यते सोऽर- षट्टः । राहाट इति प्रसिद्ध इत्यन्ये" | कस्यचिन्मते टकारान्तेष्वपि मट्टग्राम इति न्यायेन रेफान्तोऽपि कोहार इति व्यक्षरो निबद्ध | " कोट्टारो नगरे कूपे पुष्करिण्याथ पाटके" इति मेदिनी । घट्टः घाट इति प्रसिद्धः । हट्टः क्रय- विक्रयस्थानम् । पिण्डो मृदादिसंघातः । गोण्डो नाभि: । "गोण्ड: पामरजातौ च वृद्धनाभौ च संमते" इति रुद्रः । पिचण्ड उदरम् । पिचिण्ड इत्यपि । “शस्ते पिचिण्ड उदरे पशोरवयवे पुमान्” इति मेदिनी । पिचण्डवत् गादयोऽपि पुंसि स्युरिति वता निर्दिश्यते । गडुर्गलगण्डः । “गडुः पृष्ठगुडे" इति विश्वः । करण्डी शादिकृत माण्डभेद । “करण्डो मधुकोशासिकारण्डेषु दलात" इति हैमः । लजुडो वंशादिदण्डः । बरण्डो मुखरोगः । “वरण्डो वदनव्यथा | अन्त- सवेबिसंधौ च " इति हैमः । किणो मांसप्रन्थिभेदः । स तु खनित्रदण्डादिसंघ- र्षमात्करतलादौ स्पष्टः । “व्रणर्ज चिहं च किण: " । घुणः काष्ठकमिः । 'घुण: स्वास्काष्ठवेधकः" इति रतकोशः ॥ १८ ॥ हतिः चर्मपुटकः । 'इतिश्चर्मपुटे मत्स्खे ना" इति मेदिनी । सीमन्तः केशवेशः । हरित्पालाशवर्णः । "हरिदिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च" इति मेदिनी । रोमन्थः पशूनां चर्वितचर्षणम् | उद्गीथः सामभेदः । “उद्गीथः प्रवणः सामवे- दध्वनिः" इत्यरुणः । बुहुदो जलविकारः । कासमर्दो गुल्मभेद: " । अर्बुदो दशकोटमः । "अर्बुदो मांसकीले स्वात्परुषे दशकोटिषु" इति मेदिनी । अर्दनिरिति पाठे अर्दनिरभिः । कुन्दः शिल्पभाण्डम् । “कुन्दोऽच्युते मिघौ । चक्रौच माध्ये च" इति हैमः । फेनो जलविकारः । स्तूपो वटकादिः । एतौ यूपच । “ धूप इत्यपि ” ॥ १९ ॥ आतपः सूर्यालोकः । क्षत्रिये नाभिः । 44 66 Digitized by Google A