पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं काण्डम्. नाम्न्यकर्तरि भावे च घञजबनणघाथुचः || ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः ॥१५॥ बन्देऽश्ववडवाव श्ववडवा न समाहते ॥ कान्तः सूर्येन्दुपर्यायपूर्वोऽयःपूर्वकोऽपि च ॥ १६ ॥ वटकश्चानुवाकश्च रल्लकच कुंडङ्गकः || ३६३ अप् यथा । कर गरः लव: प्लव: । नकु यथा | यज्ञः प्रश्नः । “याओत्यत्र तु पुंस्त्वं बाधितम् । नङ उपलक्षणार्थत्वात् । खपो नन् । स्वप्नः । स्वतः संवेश इत्यपीति वा पुंस्त्वसिद्धिर्योध्या "। णप्रत्ययो गथा । न्यादः । घप्र- त्ययो यथा । उरश्छदः । अथुन्च् यथा । वेपथुः । ल्युरिति । कर्तरि नन्द्या- दिल्युः पुंसि स्यात् । यथा | नन्दनः रमणः मधुसूदनः । भाषे पृथ्वादिभ्यो य इमनिच् स पुंसि स्यात् । यथा । पृथोर्भावः प्रथिमा महिमा । भाव इति किम् । वृणोतीति वरिमा पृथ्वी । अत्र भावे इति शब्दो देहलीदीपन्यायेन पूर्वत्र परत्र च संबध्यते । मावे को यथा । “आखूत्थः प्रस्थः" । प्रादितः अन्यतम परो यो घुसंज्ञो धातुतसाद्विहितः किप्रत्ययः पुंसि स्यात् । दाप्दैपौ बिना दारूपो धारूपश्च धातुर्घुसंज्ञकः । प्रादितो यथा । प्रधिः निधिः आदिः । अन्यतो यथा । जलधिः इषुधेस्तु द्वयोरिति बाघितत्वम् ॥ १५ ॥ इन्द्वे समा- हारादन्यत्र द्वन्द्वसमासेऽश्ववडवौ पुंसि | स्वयमेवोदाहरति । अश्वाथ वडवा- श्राश्ववडवाः । एवमश्ववडवान् । अश्ववडवैरित्यादिप्रयोगः । समाहारे त्वचव- डवमिति क्लीबम् । सूर्यचन्द्रपर्यायपूर्वकः कान्तशब्दः पुंसि । यथा । सूर्यकान्तः अर्ककान्तः चन्द्रकान्तः इन्दुकान्तः सोमकान्तः । अयोषाचकपूर्वकोऽपि कान्तः पुंसि । यथा । अयस्कान्तः लोहकान्तः ॥१६॥ इदानीं पुलिङ्गविशेषपर्यन्तमनु- क्तानां कान्तादिक्रममनतिक्रम्याह | षटक:: पिष्टकमेदः । अनुबाको बेदाव- यवः | रल्लकः कम्बलः | कुडनको वृक्षलतागहनम् । “क्कुटङ्गक इत्यपि " | पुको बाणावयवः । न्यूः सामवेदे निपातित ओङ्कारः । न्युक्त इति इखो- कारोऽपि । “न्यूहः सम्यानोशे च सान्नः पद्मवणेऽपि च” इति मेदिनी । समुद्रः संपुटकः । बिटो धूर्तः । “बिटो द्रौ लबणे पित्रे मूषिके खदिरेऽपि च " इति मेदिनी । षट्टः काष्ठादिरचित आसनविशेषः । “पहचतुष्पथे पीठे राजादे शासनान्तरे । व्रणादिषन्धने पेषाश्मनि" इति हैमः। घटस्तुला । “घटो दिव्ये तुलायां खाइटी चीरे च वाससे" इति मेदिनी । अन्धकृपादयः खटाः । by Digitized Google •