पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

170 - 17: [ नानार्थवर्गः सटीकामरकोशस्य दुरोदरो धूतकारे पणे द्यूते दुरोदरम् || महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् ।। १७१ ।। मत्सरोऽन्यशुभद्धेषे तद्वत्कृपणयोत्रिषु ।। देवाट्टते वरः श्रेष्ठे त्रिषु क्लीबं मनाकप्रिये ।। १७२ ।। वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घंटे च ना ॥ ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ॥ १७३ ॥ यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ॥ शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ १७४ ॥ शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ || "धूतकारे पणे च" । दुरोदरचतुरक्षरः । धूते दुरोदरं क्लीबम् । दुर्गपथे दुर्गवर्त्मनि । “कान्तारोऽत्री महारण्ये बिले दुर्गमवर्त्मनि । पुंसि सादिक्षु- भेदे " इति मेदिनी ॥ १७१ ॥ अन्यशुमद्वेषे परसंपत्त्यसहने मत्सरः पुंसि । तइति मात्सर्ययुक्त कृपणे च मत्सरोऽभिधेयलिङ्गकः । देवादेवसकाञ्चाङ्ग- तेऽभीप्सिते बरः पुंसि । श्रेष्ठे त्रिषु । मनाप्रिये ईषदिष्टे क्लीषम् । “बरो जामातरि वृतौ देवतादेरमीप्सिते || पिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंस- कम् । वरी प्रोक्ता शतावर्या वरा च स्यात्फलत्रिके । मनागिष्टे वरं क्लीन केचिदाहुस्तदव्ययम्" इति मेदिनी ॥ १७२ ॥ वंशस्य वेणोरकुरे करीरः पुत्रपुंसकयोः । ना पुमान् | चमूजघने सेनापत्राद्भागे प्रतिसरो ना पुंलिङ्गः । हस्तसूत्रे मङ्गलार्थ मन्त्रैरभिमत्रितं सूत्रं यत्करे बच्यते तत्र । “भवेत्प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे | व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डले | आरक्षे करसूत्रे च नियोज्ये त्वन्यलिङ्गके” इति मेदिनी ॥ १७३ ॥ यमादिषु चतुर्दशसु हरिशब्दो वर्तते । तत्र त्रयोदशसु ना पुमान् । कपिलवर्णे त्रिलिङ्गः । अनिलो वायुः । अंशुः किरणः । वाजी हयः । शुकः पक्षिभेदः । अहिः सर्पः । “लोकान्तरहरिद्वर्णयोष हरिः" ॥ १७४ ॥ कर्परांशें सिकतासु | अपिशब्दात्खण्डविकृत्यादौ शर्कराशब्दः । “ शर्करा खण्डविकृतायुपलाकर्ष- रांशयोः । शर्करान्वितदेशेऽपि रुग्भेदे सकलेऽपि च " इति मेदिनी | याप्यते- ऽनेन यापनं तस्मिन् । “यात्रा तु यापनोपाये गतौ देवार्चनोत्सवे” इति Digized by Google