पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ]

तृतीय काण्डम्. वेदभेदे गुप्तवादे मत्रो मित्रो रवावपि ।। १६६ ।। मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः || आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ॥ १६७ ॥ अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च || स्याज्जङ्गमे परीवारः खनकोशे परिच्छदे ।। १६८ ॥ विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ।। द्वारि बास्ये प्रतीहारः प्रतीहार्यप्यनन्तरे ॥ १६९ ॥ विपुले नकुले विष्णो बभ्रुर्ना पिङ्गले त्रिषु || सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ॥ १७० ।। ३२५ 166- 17/0 रणे मन्त्रः । “ मन्त्रो देवादिसाधने । वेदांशे गुप्तवादे च" इति हैमः । अपिशब्दा- सौमित्रं क्लीषम् । मित्रं सुहृदि न इयोरित्युक्तत्वात् ।। १६६ ॥ “ यूपे तक्ष्यमाणे प्रथमपतितं शकलं यूपखण्डम्” । अपिशब्दाहम्मौलौ च स्वरुः । स्वरुर्बज्रध्वनौ बाणे यूपखण्डेऽपि च स्वरुः । गुझे उपस्थे । अपिशब्दाथे- ऽप्यवस्करः । तूर्यरवो वाद्यध्वनिः । “आडम्बरः समारम्भे गजगर्जिततूर्ययो:" इति कोशान्तरम् ।। १६७ ।। अभियोगोऽभिग्रहणम् | चोरस्य कर्म चौर्यम् । सन- हनं कबच्चादिग्रहणम् । एतेष्वमिहारः । जङ्गमे जङ्गमविशेषे परिजन इति यावत् । खत्रकोशे असिपिधायके चर्मादौ परिच्छदे उपकरणे परीवार: ।। १६८ ।। विटपी वृक्षः । दर्भमुष्टिपरिमाणं तु | पश्चाशता भवेद्ब्रह्मा तदर्धेन तु विष्टर इत्यादि । पीठमाद्यं यस्य तदासनं च विष्टरः । आद्यशब्दात् कृष्णा- जिनादि । अत्र पीठं काष्ठादिमयमासनम् । द्वाःस्त्रे द्वारपाले प्रतीहारः । अनन्तरोक्ते प्रतीहारे प्रतीहारीत्यपि शब्दः । स तु पुंव्यक्तावपि स्त्रियाम् । “उपसर्गस्य घञि” इति दीर्घः । गौरादित्वात् डीज् । अपिशब्दात् "द्वाः स्थितायां च योषिति" इति मेदिनी । अयमिनन्त इति न अमितव्यम् । रान्तेषु तस्य पाठा- बोगात् ॥ १६९ ॥ विपुल इति नकुलविशेषणम् । तेन विशालनकुले विष्णौ च पशुः पुंसि | पिछले त्रिषु । “बभ्रुः पिङ्गाऽग्निशूलिषु । सुनौ विशाले नकले विष्णौ" इति हैमः । स्थिरांशो वृक्षादे: कठोरभागः । तत्र यथा । शिशपासारः । न्याय्ये न्यायादनपेते | वरे श्रेष्ठे । “सारो बले स्थिरांशे च मज्ज्नि पुंसि अले भने । न्याय्ये क्लीषं त्रिषु वरे” इति मेदिनी ॥ १७० ॥ Digitized by Google 44