पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

C 1162-166 ३२४ सटीकामरकोशस्य [ नानार्थवर्ग: किंशारू संस्यशूकेषू मरू धन्वधराधरौ ॥ १६२ ॥ अद्रयो द्रुमशैलार्काः स्त्रीस्तनादौ पयोधरौ || ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ॥ १६३ प्रदरा भङ्गनारीरुक्रवाणा अस्राः कचा अपि || अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ ॥ १६४ ॥ स्वर्णेsपि राः परिकरः पर्यकपरिवारयोः ॥ मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥१६५॥ कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगरः ।। । पलाण्डभेदा गृञ्जनादयः । सादृश्यं यथा । मर्कटप्रकारं करोति । इति चेष्टितम् । “किंशारुनी सस्यशूके बिशिखे कङ्कपक्षिणि" इति मेदिनी । सस्य- स्थाने धान्य इति कुत्रचित् पाठः || धन्वा निर्जलदेशः । धराधरः पूर्वतः सोऽपि मरुस्थलीसंबन्धान्मरुः ॥ १६२ ॥ द्रुमशैलार्केषु अद्रिशब्दो वर्तते । लियाः स्तनः कुचः अब्दो मेघ । उमौ पयोधरौ “पयोधरः कोशकारे नालिकेरे स्तनेऽपि च ॥ कशेरुमेषयोः पुंसि" इति मेदिनी । अरिः शत्रुः । दानवो दनुजभेदः । “वृत्रो मेघे रिपौ ध्वान्ते दानवे बासषे गिरौ” इति हैमः । राज्ञा ग्राह्यभागो बलिः | अंशू रश्मिः ॥ १६३ ॥ नारीरुक् स्त्रीणां रोगमेद: । “प्रदरो रोगभेदे स्याद्विदारशरमजयोः” इति । कचाः केशाः । अपिशब्दात्कोणेऽप्यस्त्रः । न जाते जे यस्य स एवंभूतो गौ | काले श्मश्रू- त्थानसमयेऽपि यो ना पुरुषोऽश्मश्रुः मथुरहितस्तावुभावपि तूनरौ । “काल इत्युमाभ्यां संबध्यते । तूबरोऽमथुपुरुषे प्रौढाशृङ्गारकेऽपि च । पुरुषे व्यञ्ज- नत्यक्ते स्यात्कषायरसेऽपि च " इति मेदिनी ॥ १६४ ॥ अपिशब्दाद्वितमात्रे रा इत्येकाक्षरम् । " भवेत्परिकरो व्राते पर्यङ्गपरिवारयोः । “प्रगाढगात्रिका- बन्धे विवेकारम्भयोरपि” इति विश्वः ।“यलारम्भौ परिकरौ” इति त्रिकाण्डशेषः। तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके । “तारं व रजतेऽत्युषस्वरेऽप्यन्य- वदीरितम्” इति विश्वः । स तु शारशब्दः । कर्बुरः शबलवर्णः । शारः साच्छ- बले वाच्यलिङ्गः पुंसि समीरणे ॥ १६५ ॥ आजिर्युद्धम् । संबित् क्रिया- कारः । प्रतिज्ञायां यथा । सत्यसंगरः । “संगरो युषि थापदि । क्रियाकारे विषे चाङ्गीकारे लीर्ष शमीफले " इति मेदिनी । गुप्तवादे रहसिकर्तव्यानधा- Diglized by Google PAR