पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ] तृतीयं काण्डम्. ३२७ इरा भूवाक्सुराऽप्सु स्यात्तन्द्री निद्राप्रमीलयोः ॥ १७५ ॥ धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि ॥ क्षुद्रा व्यङ्गा नटी बेश्या सरघा कण्टकारिका ।। १७६ ।। त्रिषु क्रूरेऽघमेऽल्पेsपि क्षुद्रं मात्रा परिच्छदे || अल्पे च परिमाणे सा मात्रं कात्यैश्वधारणे ॥ १७७ ॥ आलेख्याश्चर्ययोचित्रं कलत्रं श्रोणिभार्ययोः || योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ।। १७८ ।। निदेशप्रन्थयोः शास्त्रं शस्त्रमायुषलोहयोः ।। बिश्वः । भ्वादिषु चतुर्षु इराशब्दः । सुरा मद्यम् । आपो जलम् । श्रमादिना सर्वेद्रियापटुत्वं प्रमीला । "तन्द्रेति टाबन्तोऽपि ” ॥ १७५ ॥ उपमात्रादिषु धात्रीशब्दः । उपमाता क्षीरप्रदा | क्षितिः पृथ्वी । आमलकी वृक्षभेदः । अपिना जनन्यपि धात्री । व्यङ्गादिषु क्षुद्रा । व्यङ्गा हीनाङ्गी | नटी नर्त- नशीला | सरमा मधुमक्षिका । कण्टकारिका बृहती । “क्षुद्रा व्याघ्रीनटी- व्याबृहतीसरबासु च । चाङ्गेरिकायां हिंसायां मक्षिकामात्रवेश्ययोः” इति हैमः ।। १७६ ।। क्रूरादित्रये क्षुद्रं त्रिषु । “क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्प- नृशंसयोः" इति हैमः । परिच्छदादित्रये मात्रा स्त्रियाम् । कार्यादिद्वये क्लीवम् । परिच्छदे यथा । महामात्रः । अल्पे यथा । शाकमात्रा | परिमाणे यथा । किं इस्तिमात्रोऽङ्कुशः । कार्ये यथा । जीवमात्रं न हिंस्यात् । अबधारणे तु । पयोमात्रं हे । धने कर्णभूषायां वर्णावयवे च मात्रा | "मात्रं त्ववटतौ स्वार्थे कात्यै मात्रा परिच्छदे | अक्षराऽवयवे द्रव्ये मानेऽल्पे कर्णभूषणे | काले वृते च” इति हैमः ॥ १७७ ॥ आलेख्यं मित्यादौ नाना- वर्णलेखनम् । “चित्रं खे तिलकेऽद्भुते । आलेख्ये कर्बुरे" इति हैमः । श्रोणिः कटि: । "दुर्गस्थाने नृपादीनां कलत्रं आणिभार्ययोः" इति रमसः । योग्ये यथा । दानपात्रं श्रोत्रियः “पात्रं तु भाजने योग्ये पात्रं तीरद्वयां- तरे | पात्रं सुबादौ पर्णे च राजमत्रिणि चेष्यते” इति विश्वः । पर्णे च पत्रम् । "पत्रं तु वाहने पर्णे पक्षे च शरपक्षिणोः" इति विश्वः ॥ १७८ ॥ निदेश आज्ञा । ग्रन्थो व्याकरणादिः । तत्र शाब्रम् | जटा वृक्षमूलम् । अंशुकं वस्त्र- भेदः | नेत्र बनविशेषः स्यादिति मञ्जरी । “नेत्रं मधिगुणे बलभेदे मूले Digtized by Google