पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

145 - 127 ३२० सटीकामरकोशस्य [ नानार्थवर्ग: पर्जन्यौ रसदन्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः ॥ तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे ॥ १४६ ॥ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु || रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४७ ॥ स्थूलोधयस्त्वसाकल्ये नागानां मध्यमे गते । समयाः शपथाचारकालसिद्धान्तसंविदः ॥ १४८ ॥ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ।। अत्ययो तिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ॥ १४९ ॥ ॥ प्रत्य- दुम्बुदः । इन्द्रः शक्रः । उभौ पर्जन्यौ । “मेषशब्देऽपि पर्जन्यः " प्रश्ववैश्ययो- रर्यः । पुष्य तुर्ययुगे च तिष्यः | अवसरे प्रस्तावे क्रमे च पर्यायः । “पर्यायस्तु प्रकारे स्वाभिर्माणेऽवसरे क्रमे " इति विश्वः ॥ १४६ यनं प्रत्ययः । प्रतीयते अनेन वा प्रत्येतीति वा प्रत्ययः । “इण्गतौ” “घर” अथवा पचादित्वात् साधुः । अधीनादिषु सप्तसु प्रत्यमन्नन्दस्तत्राऽवीने यथा । राजप्रत्ययाः प्र॒जाः । शपथः शपनम् । ज्ञाने गया । प्रत्यक्षप्रत्ययः । विश्वासे गथा । न क्षत्रोः प्रत्ययं गच्छेत् । हेतो मया । माईस्थ्यं मार्गा- प्रत्ययम् । रन्ध्रे छिद्रे | शब्दे यथा । चिकीर्षतीत्यत्र सन् प्रत्ययः । “प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु । प्रथितत्वे च सभादावधीनशानयोरपि" इति विश्वः । चिरद्वेषे पञ्चाचापे चानुशयः । “अनुबन्धे च” ॥ १४७ ॥ असाकल्वे- ऽकात्स्यें । नागानां हस्तिनां यत्र शीघ्रं नापि मन्दं गमनं तत्रेत्यर्थः । स्थूलो- चयो गण्डोपलेऽपि च । “गजानां मध्यमगतेऽप्यसाकल्प करण्डयोः" इति मे- दिनी । शपथादयः समयाः । तत्र शपथे गथा | कृतसमयोऽपि चोरो दण्यः । संबित् संभाषा | “समयः शपथे भाषासंपदोः कालसंविदोः । सिद्धान्ताचा- रसंकेतनियमावसरेषु च । क्रियाकारे व निर्देशे " इति हैमः || १४८ ॥ व्यसनानि धूतादीनि । अनुममिति दैवविशेषणम् । विपद्विपत्तिरेतमयं जन- यसंज्ञम् । अशुभदैवे यथा । निःस्खोऽभूदनयेन सः । जतिक्रमे उल्लङ्घने । “ अपिशब्दात् नाशे चात्ययः " । आपदादित्रमे संपरामः ॥ १४९ ॥ आयतिः उत्तरकालः | अपिशब्दात्पूजार्हेऽपि पूज्य: । सेनायाः पृष्ठमाने Digitized by Google