पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! 142-4135 ३ ]. तृतीयं काण्डम्. क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ १४२ ।। त्रिषु श्यामौ हरिकृष्णौ श्यामा स्याच्छारिवा निशा ॥ ललाम पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३ ॥ सूक्ष्ममध्यात्ममप्याद्ये प्रघाने प्रथमत्रिषु ॥ वामौ वल्गुप्रतीपौ दावघमो न्यूनकुत्सितौ ॥ १४४ ॥ जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ॥ इति मान्ताः ॥ तुरङ्गगरुडौ तार्क्ष्यो निलयापचयौ क्षयौ ।। वशुर्यो देवरश्यालो भ्रातृव्यौ भ्रातृजद्विषौ ॥ १४५ ॥ भूषा सामी- योग्ये शक्ते हिते क्षममित्याह " ॥ १४२ ॥ हरित्यालाशः । कृष्णः कालः उभौ श्यामौ । शारिवा शतावरी निशा च श्यामा । “श्यामो वटे प्रया- गस्य वारिदे वृद्धदारके । पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु । मरीचे सिन्धुलवणे क्लीर्ष स्त्री शारिवौषधौ । अप्रसूताङ्गनायां च प्रियङ्गावपि चोच्यते । यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ । नीलिकायाम्” इति मेदिनी | पुण्ड्रमवादीनां ललाटचित्रम् | अश्वो घोटकः । प्यादश्वस्यैव " । प्रधानमेव प्राधान्यम् | केतुर्ध्वजः षट्सु ललामम् । “लला- मेल्यपि । “प्रधानध्यजपुष्ट्वालभिलक्ष्मसु । भूषावाविप्रभावेषु ललार्म स्खाल्ललाम च" इति रुद्रः १४३ || अध्यात्म आत्मन्यभिकर्त लिनदेहम् । अपिशदात्तने । “सूक्ष्मे स्यात्कैतवेऽध्यात्मे पुसणौ त्रिषु चाल्पके" इति मेदिनी । आधे आदौ प्रधाने मुख्ये प्रथमः । त्रिष्विति यावन्मान्तमधिकारः । प्रतीपो विपरीतः । बलगुर्यथा | वामलोचना: लियः । “वामः कामे सव्ये पयोघरे । उमानाथे प्रतीकूले चारौ बामा तु योषिति" इति हैमः । न्यूनच कुत्सितमाघमौ ॥ १४४ ॥ जीर्णे प्राप्तपरिणामम् । परियुक्तं भुक्तोज्झितम् । द्वगं यातयामसंशम् । यातः यामः उपभोगकालो यस्य । तदुक्तं हैमे । “यातया- मोऽन्यवजीर्णे परियुक्तोज्झितेऽपि च” इति ॥ इति मान्ताः ॥ अथ यान्तानाह । अश्वगरुडौ तार्क्ष्यसंज्ञौ । “तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरुडाप्रज्जे ॥ अश्वकर्णा- इयतरौ स्यात्” इति हैमः । निलयो गृहम् । अपचयो हासः । उभौ क्षयौ । “क्षयो गेहे कल्पान्तेऽपचमे रुजि" इति हैमः । श्यालो भार्यात्राता । असुर- संगड्यं वशुग्री: आदशत्रः शत्रुपुत्रथ आतृव्यौ ॥ १४५ ॥ रसदग्दो ध्वन- Dightized by Google