पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! 133-137 ३] तृतीयं काण्डम्. कुम्भौ घंटेभमुद्धांशो डिम्भौ तु शिशुवालिशौ || स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ ॥ १३४ ॥ कुक्षि भ्रूणार्भका गर्भा विसम्भः प्रणयेऽपि च || स्याय दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् ॥ १३५॥ स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् || क्षत्रियेsपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् ॥ १३६ ॥ सभा संसदि सभ्ये च त्रिष्वष्यक्षेऽपि वल्लभः ॥ इति भान्ताः।। किरणमग्रहो रश्मी कपिभेकौ प्लवङ्गमौ ॥ १३७ ॥ इच्छामनोभवौ कामौ शौर्योद्योगो पराक्रमौ ॥ मूत्र: शिरोभागः । “कुम्भः सात्कुम्भकर्णस्य सुते बेश्यापतौ घंटे ॥ राशि- भेदे द्विपाङ्गे च" इति विश्वः । बालिशो मूर्खः । स्थूणा गृहस्तम्भः | जडीभाषो जडत्वम् । “शम्भुर्ब्रह्माईतोः शिवः” इति हैमः ॥ १३४ ॥ भूमो गर्भलो जन्तुः । अर्मकः शिशुः । एते गर्भाः । “गर्भः कुक्षौ शिक्षौ सन्धी भ्रूणे पन- सकण्टके" इति हैमः । प्रणये शृङ्गारप्रार्थनायां अपिशब्दाहियासादौ विसम्मः विवम्भोऽपि । “विश्रम्मः केलिकलहे विश्वासे प्रथये बधे” इति विश्व- हैमौ ॥ दुन्दुमिर्यो पुंसि । अधे बालक्रीडोपकरणे तितरिंगि इति देशान्तर- प्रसिद्धे सियाम् । “दुन्दुमिः पुमान् | वरुणे दैत्वमेव पक्षविन्दुविरुद्धमे" इति मेदिनी ॥ १३५ ।। महारजने पुष्पभेदे | येन रक्कं वर्ण कौसुम्भम् । करके कमण्डलौ । क्षत्रिये नामिः पुंसि । अपिशब्दान्नुपे चक्रमध्ये च । प्राप्य तु द्वयोः । मृगभेदे तु सियाम् । गवि सौरमेय्याम् । सुरभिः श्री | चकाराद्वसन्तजातीफलचम्पकेषु ना । सुगन्धिमनोशयोतिषु । "सुवर्णे पहजे च लीमम्" ।। १३६ ॥ संसदि सदसि | सभ्यः सदखः । “नियां सामा- जिके गोध्यां धूतमन्दिरयोः सभा” इति रमसः ” । अपिशव्दादयिते । कुली- नावे च बल्लमः | "बल्लमो दमितेऽध्यक्षे सलक्षणतुरङ्गमे" इति कोशान्तरात् || इति मान्ताः ॥ अथ मान्तानाह | अश्वादेर्बन्धनरज्जुः प्रब्रहः । “रश्मिः पुमान् दीघितौ स्यात्पक्षप्रग्रहयोरपि” इति भेदिनी ॥ १३७ ॥ मनोभवो मदनः । शौर्य सामर्थ्यम् । पुण्यादौ पदके धर्मशब्दस्तत्र | गमोऽन्तकः । न्याये गथा धर्मा- Diglized by Google