पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

430-173 सटीकामरकोशल [ नानार्थवर्गः तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् || १३० ॥ प्रातरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ भेद्यलिङ्गा अमी कर्मी वीणाभेदश्च कच्छपी ॥ १३१ ॥ ("कुतपो मृगरोमोत्थपटे चाहोऽष्टमेंऽशके ॥” इति पान्ताः॥ रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ।। ) इति फान्ताः ॥ ( १ ) अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने || १३२ ॥ कम्बुर्ना वलये शङ्खे डिजिड़ो सर्पसूचकौ ॥ पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुवेपि पूर्वजान् || १३३ || इति बान्ताः ।। शाखमोच । “पल्लवे विटाविपेऽपि " बिटपः ॥ १३० । अमी प्राप्तरूपादयत्रयः पान्ता भेद्यलिङ्गाः बुधे पण्डिते मनोज्ञे मनोहरे च वर्तते । प्राप्तं रूपं येन प्रासरूपः । स्वमेव रूपं यस्य स्वरूपः | अभिलक्ष्य रूपमस्यामिरूपः" । कूर्मी कमठी । बीणाभेद: सारस्वतीषीणा। सरस्वत्यास्तु कच्छपीत्युक्तत्वात् । द्वे कच्छपीसंज्ञे । 'कच्छपी बल्लकीमेदे डुलौ क्षुद्रगदान्तरे” इति विश्वः ॥१३१|| “कुतपो मृगरो- मोत्थपटे चाहोऽटमेंऽशके" इत्यन्यत्र कचित् । इति पान्ताः ॥ रखर्णे राक्षरे रेफ पुंसि । यथा रेफे परे लोपः । कुत्सिते रेफो बाध्यलिङ्गकः । शिफा शिखायां सरिति मांसिकायां च मातरि । शर्फ मूले तरूणां स्याद्रवादीनां खुरेऽपि च ॥ गुम्फः स्याद्गुम्फने बाहोरलङ्कारे च कीर्तितः । इति साथै पयं मूलादितरत् ।। इति फान्ताः ॥ अथ घबयोः सावर्ण्यत्वात् बान्तावान्तांबाह । यो मरणजन्मनो- रन्तराले स्थितः प्राणी सोऽन्तराभवसत्त्वः तसिन् । अवे धोटके | दिव्यगा- यने विश्वावसुप्रभृतौ । गायनमात्रे च गन्धर्वः । “गन्धर्वस्तु नभवरे | पुंस्को- किले गायने च मृगभेदे तुरङ्गमे । अन्तराभवदेहे च" इति हैमः ॥ १३२ ॥ ना पुंसीत्यर्थः । गजलम्बूकयोरपि कम्बुः । “ग्रीवायां च” । सूचकः पिशुनः । पूर्वशब्द: प्राम्बाची वाच्यलिङ्गकः । यथा । पूर्वा नदी पूर्वी ग्रामः पूर्व वनम् । यदा तु पूर्वजान् पितामहादीनाह तदा पुंसि बहुत्वे वर्तते । यद्धक्ष्यम् । पूर्वेषामपि पूर्वजाः इति । “पूर्वे स्युः पूर्वजाः पूर्वे ज्ञातयः" इति भरणिः । प्राक् पूर्वमत्रत इति च ॥ १३३ ॥ इति बान्ताः ॥ घटः कलश: इमस्य गजल १ इवं पद्यमपि तालपत्रपुस्तके भास्ति । Dightirad by Google