पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं काण्डम्. ३०७ आस्थानीयनयोराखा प्रस्थोऽस्त्री सानुमानयोः ॥ ८७ ॥ “शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ " ॥ ( १ ) ॥ इति थान्ताः ॥ अभिप्रायवशौ छन्दावन्दौ जीमूतवत्सरौ ॥ अपवादौ तु निन्दाने दायादौ सुतबान्धवौ ॥ ८८ ॥ पादा रश्म्यङ्गितुर्याशाश्चद्राग्न्यस्तमोनुदः ॥ निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः ॥ ८९ ॥ आरावे रुदिते त्रातर्थ्याक्रन्दो दारुणे रणे || स्यात्प्रसादोऽनुरागेऽपि सूदः स्थायअनेऽपि च ॥ ९० ।। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः || प्राधान्ये राजलिङ्गे च वृषाङ्गेककुदोऽस्त्रियाम् ॥ ९१ ॥ 87-91 यत्वः प्रयतः । सानु पर्वताग्रम् | मानं परिमाणभेदः ||८७|| “शास्त्रद्रविणयोर्ब्रन्थः संस्थाधारे स्थितौ मृतौ " इत्यन्यत्र प्रक्षिप्तः पाठः । इति थान्ताः ॥ अथ दान्तानाह || अभिप्राय आशयः । बशोऽधीनः । “छन्दो वशेऽभिप्राये च दृषत्पा- माणमात्रके | निष्पेषणार्थपट्टेऽपि" इति हैमः । जीमूतो मेषः । वत्सरो वर्षम् । "अब्द: संवत्सरे मेषे गिरिभेदे च सुस्तके " इति विश्वः । निन्दा गर्दा । आशा । शासनं तत्रापवादः । अववाद इत्यपि पाठः । पुत्रो ज्ञातिय दामादौ ॥ ८८ ॥ रश्मिः किरणः । तुर्या॑ञ्चचतुर्थभागः । “पादो मूलालतुर्याक्षादिषु प्रत्यन्तपर्वते" इति हैमः । तमो नुतीति तमोनुत् । जनवादे लोकापवादे अपिशब्दानिर्णी- तबादे निर्वादः । “निर्वादः स्यात्परीवादपरिनिश्चितबादयोः” इति विश्वः। जम्बाले कर्दमे | ऋष्पे वालतुणे ॥ ८९ ॥ आराधे आर्तध्वनौ । त्रातरि रक्षके दारुणे रणे भीषणे युद्धे च आक्रन्दः । अनुरागेऽनुग्रहे । प्रसभतायां काव्यगुणे च प्रसादः । “प्रसादोऽनुग्रहे काव्यगुणस्खास्थ्यप्रसत्तिषु" इति मेदिनी । व्यञ्जने तेमने खुपकारे च सूदः ।। ९० ।। गोष्ठं गोस्थान तस्याध्यक्षे गोपालादौ बृहस्पतौ कृष्णेऽपि गोविन्दः । दकारान्त आमोदशब्दो यथा हर्षे वर्तते अपिशब्दा दतिनिर्हारिगन्धे च तथा मदोऽपि हर्षे । अपिशब्दागर्वगजदानरेतः सु चेत्यर्थः । प्रधानमेव प्राधान्यम् । राजलिङ्गे छत्रादौ वृषाङ्गे वृषावयवे ककुदः ॥ ९१ ॥ १ इदमर्भ तालपत्रपुस्तकेऽपि नास्ति । Digitized by Google