पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

/ 91-96 सटीकामरकोश [ नानार्थवर्मः स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु || धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् ॥ १२ ॥ पदं व्यवसितित्राणस्थानलक्ष्माङ्किवस्तुषु ।। गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् ॥ १३ ॥ त्रिष्विष्टमधुरौ खाद् मृदू चातीक्ष्णकोमलौ ॥ मूढाल्पापटुनिर्भाग्या मन्दाः स्यु तु शारदौ ॥ १४ ॥ प्रत्यप्राप्रतिभौ बित्सुप्रगल्भौ विशारदो ॥ इति दान्ताः ॥ व्यामो वटश्च न्यशोधावुत्सेघः काय उन्नतिः ॥ १५ ॥ पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ ९६ ।। संभाषा संभाषणम् । क्रियाकारः कर्मनियमः आजिर्युद्धम् । नाम संज्ञा । एतेषु संकेते च त्रीलिङ्गं संविदिति नाम । “संबित्संभाषणे ज्ञाने संयमे नाम्नि तोषणे । क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि” इति हैमः । स्त्री इति तु संविदुपनि- पठरद्भिः संबध्यते । रहस्येकान्ते । वेदान्तेऽप्युपनिषत् ॥ ९२ ॥ व्यवसि तिर्म्यवसायः । “पदं स्थाने विभक्त्यन्ते शब्दे वाक्यैकवस्तुनोः । त्राणे पादे पादचिह्ने व्यवसायापदेशयोः” इति हैमः । सेविते गोभिरेव सेविते देशे माने खुरप्रमाणे गोष्पदम् । “गोष्पदं सेवितासेविराप्रमाणेषु" इति सूत्रेण सुडागमः सस पत्वं च निपात्यते । प्रतिष्ठा स्थानम् । कृत्यं कार्यम् । प्रतिष्ठाकत्ये आस्पदशब्दो वर्तते । “आस्पदं प्रतिष्ठायाम्" इति निपातनात् सुडागमः ||९३।। अतः परं वर्ग- समाप्तेर्दान्तात्रिषु । इष्टो मनोहरः। उभौ खादू । “खादुर्मनोज्ञे मिष्टे च" इति विश्वः । अतीक्ष्णोऽतिग्मः | कोमलोऽकठिनः । उभौ मृदू । “मृदु: स्यात्कोमले खरे" इति विश्वः । मूढो मूर्खः । अल्पे यथा । मन्दोदरी । अपदुरतीक्ष्णः निर्माग्यो हीन- भाग्यः । एते मन्दाः ॥ ९४ । प्रत्यग्रोऽभिनवः । अप्रतिभोऽप्रगलमः । द्वाविमौ शारदौ । “प्रगल्भो धृष्टः । बिचारदो बुधे धृष्टः" इति हैमः । इति दान्ताः ॥ अथ धान्तानाह ॥ प्रसारित भुजयकुण्डलं व्यामः। वटो वृक्षमेदः । द्वयं न्यग्रोधा- ख्यम् । कायो देहः । उनतिरुछ्रायः ॥ ९५ ॥ परित आयतेऽसौ पर्याहारो ध्यानादिः मार्गः पथाः एतौ विवधसंज्ञौ च भारेऽप्येतौ । यज्ञियतरोः पलाशादेः शास्त्रायां समिघि तत्र उपसूर्य के सूर्यसमीपमण्डले परिवेषाख्ये च परिधिः ॥ ९६॥ Diglized by Google