पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(1-5.) 17-19 २९१ तृतीय काण्डम्. (पाको पक्तिशिशु मध्यरने नेतरि नायकः ॥ पर्यः स्यात्परिकरे स्याद्यात्रेऽपि च लुब्धकः ॥ २ ॥ आर्द्रायामपि लुब्धक इत्यपि पाठः ॥ पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः ॥ खेटको ग्रामफलको धीवरेऽपि च जालिकः ॥ ३ ॥ पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च ॥ स्यात्कल्लोलेऽप्युत्कलिका वार्द्धकं भाववृन्दयोः ॥ ४ ॥ करियां चापि गणिका दारको बालभेदकौ || अन्धेऽप्यनेडमूकः स्याङ्कौ दर्पाश्मदारणौ ॥ ५ ॥) (१) ( इति पञ्च क्षेपकाः ॥ इति कान्तवर्गः ) ॥ (२) मयूखस्त्विट्करज्वालास्खलिबाणौ शिलीमुखौ || शङ्को निधौ ललाटास्त्रि कम्बौन स्त्रीन्द्रियेऽपि खम् ॥१८॥ घृणिज्वाले अपिशिखे ॥ इति खान्ताः॥ शैलवृक्षौ नगावगौ ॥ आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥ पतङ्गौ पक्षिसूर्यौ च पुगः क्रमुकवृन्दयोः ॥ अथ खान्तानाह | विट्करज्यालासु मयूखः । अत्र स्विद् शोभा । करः किरणः । अमरशरौ शिलीमुखौ | शिली शल्यं मुखे ययोस्तौ । निधौ निधिमेदे लला- टास्थिन कम्मौ च शङ्खः । अपिशब्दादाकाशेऽपि शून्ये खम् । खमिन्द्रिये पुरे क्षेत्रे शून्यबिन्दौ विहायसि । “संवेदने देवलोके शर्मण्यपि नपुंसकम्” इति मेदिनी ॥ १८ ॥ घृणिः किरणः | अपिशब्दाचूडायां प्रपदे बर्हिचूडायां च शिखा । इति खान्तवर्गः । अथ गान्तानाह । शैलवृक्षौ नगसंज्ञकावगसंज्ञकौ च । विशिखो बाणः | बाणार्कपक्षिणः खगशब्दवाच्याः । अर्केति ग्रहणमुपलक्ष णम् ॥ १९ ॥ चकाराच्छालिप्रभेदे पतः । ऋमुको वृक्षभेदः । तत्फले तु क्लीनं पूगम् । वृन्दं समूहः । पशवो हरिणाद्याः । अपिशब्दात् मृगशीर्षे मार्ग- १ इदं पद्यचतुष्टयं सालपत्रपुस्तकेऽपि नास्ति ॥ २ इद्मपि तालपत्रपुस्तके नास्ति ! एवममेऽपि ॥ Dightired by Google 1