पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20-23 २९२ सटीकामरकोशस्य पशवोऽपि मृगा वेगः भवाहजवयोरपि ॥ २० ॥ परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ॥ गजेपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ २१ ॥ सर्गः स्वभावनिर्मोशनिश्चयाध्यायसृष्टिषु || योगः सन्नहनोपायध्यानसंगतियुक्तिषु ॥ २२ ॥ भोगः सुखे स्यादिभृतावहेश्च फणकाययोः ।। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २३ ॥ कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे || [ नानार्थवर्ग: णायां च मृगः | जवो रहः । अपिशब्दाद्विष्ठादेर्बहिर्निर्गमेऽपि वेगशब्द: स्यात् ॥ २० ॥ कुसुमसंबन्धिनि रेणौ परागः । स्नात्यनेन स्नानीयं गन्धचूर्ण- विशेषः । आदिना सुरतादिश्रमशान्तये कामशाखायुक्तं यत्कर्पूरादिचूर्ण तद्ब्रहः । अपिशब्दादुपरागेपि । परागः रजसि धूलौ । नागमातडौ गजे बर्तेते । अपिशब्दात्काद्रवेयनागकेशरनागवल्लीहास्तिनपुरमेषशुस्तकादौ । नागः पुंसि । क्लीषं सीसलवङ्गयोः । अपिशब्दाचण्डालेऽपि मातङ्गः । “ अपिश- उदात् " नेत्रस्यान्तेऽग्रहीने चापाङ्गः । “अपाङ्गस्त्वङ्गहीने स्याभेत्रान्ते तिलकेऽपि च" इति विश्वः ॥ २१ ॥ स्वभावः प्रकृतिः । निर्मोक्षस्त्यागः । निश्चये यथा । "गृहाण शतं यदि सर्ग एष ते" इति रघुः । अध्यायः काव्यादिविरामस्थानं सृष्टिर्निर्माण एतेषु सर्गः । “सर्गस्तु निचयाध्यायमोहोत्साहात्मसृष्टिषु” इति मेदिनी । सग्रहनं कवचः । उपायः सामादिः । ध्यानं चिचवृचिनिरोधः संगतिः संगम इत्यादिषु योगशब्दः । “योगोऽपूर्वार्थसंप्राप्तौ संगतिध्यानयु- तिषु । वपुःस्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे । विभग्धघातके द्रव्योपा- यसग्रहनेष्वपि । कार्मणेऽपि च " इति मेदिनी ॥ २२ ॥ त्यादिभृतौ पण्य- श्रीणाम् । आदिशब्दाद्धस्त्यवादिकर्मकाराणां भृतौ मूल्ये पारणेचा भोगः । “पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिति" इति विश्वः । अहे सर्पस्य । शबले कर्बुरे त्रिलिङ्गाम् । “सारङ्गः पुंसि हरिणे चातके व मतहजे | शबले त्रिषु” इति मेदिनी ॥ २३ ॥ कपौ वानरे चकाराद्भेके सारथ्यादौ च लवगः । शापे आक्रोशे पराभषे तिरस्कारेऽभिषङ्गः । यानाद्यङ्गे रथशकटादीनामवयवे 66 Digitized by Google