पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

13-17, 1 २९० सटीकामरकोशस्य दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः ॥ दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करघन्वनोः ॥ १४ ॥ घेनुका तु करेण्वां च मेघजाले च कालिका || कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५ ॥ करिहस्तेऽकुलो पद्मबीजकोश्यां त्रिषूत्तरे || वृन्दारको रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥ स्याहाम्भिकः कौकुटिको यश्चादूरेरितेक्षणः ॥ लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ १७ ॥ 'भूभूनितम्बवलयचक्रेषु कटको स्त्रियाम् || सूच्यप्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः ॥ १ ॥ [ नानार्थवर्ग: वृततैलादिशेषे दम्मे विभीतके” इति मेदिनी । “पिनाकोऽसी रुद्रचापे पांसुन- त्रिशूलयो: " इति मेदिनी ॥ १४ ॥ करेण्वां इस्तियां चकाराभवस्तायां गवि धेनुका | मेषजाले मेघवृन्दे चकाराद्देवताविशेषेऽपि कालिका । वृत्ति- विवरणश्लोकः । यथा गृह्णकारिका । “यातनाकृत्योरित्यपि पाठः । कारिका नटयोषिति । कृतौ विवरण श्लोके शिल्पयातनयोरपि । नपुंसकं तु कर्मादौ कारके कर्तरि त्रिषु" इति मेदिनी ॥ १५ ॥ करिहस्तेऽङ्गुलौ गजझुण्डाप्रे अनुलो कमलान्तर्गतकोशे च कर्णिका । “कर्णिका करिहस्ताग्रे करमध्याङ्गुला- वपि । क्रमुकादिच्छटांशेऽनवराटे कर्णभूषणे" इति मेदिनी । उत्तरे अतः परं खान्तेभ्यः प्राक् शब्दाखिषु त्रिलिङ्गा इत्यर्थः । “वृन्दारकः सुरे पुंसि मनोज्ञ श्रेष्ठयोखिषु " इति मेदिनी । मुख्यधान्यच केवलश्चेति एके स्युः ।। १६ । दाम्भिको मायावी । योऽदूरेरितेक्षणः स च कौकुटिक इत्युच्यते । " संज्ञायांं ललाटकुकुव्यौ पश्यति" इति सूत्रेण ठक्प्रत्यये कौकुटिकलाला- टिकशब्दौ साधू । ककुटीशब्देन तत्पाताई: स्वल्पदेशो लक्ष्यते । यो भृत्यः कोपप्रसादचिह्नशानाय प्रभोर्भालं ललाटमेव पश्यति । भावदर्शीत्यपि पाठः । यच कार्याक्षमः प्रभोः कार्ये कर्तुमशक्तः तावुभौ लालाटिकौ । “लाला- टिकः सदालस्ये प्रभुभावनिदर्शिनि" इत्यजयः । इतो भूभृमितम्बेत्यादयः केचि- दमूलका एव पश्च श्लोकाः अतस्तेषां व्याख्यानाभावः ॥ १७ ॥ इति कान्ताः ॥ Diglized by Google 1