पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] तृतीयं काण्डम्. २८९ तिलकल्के च पिण्याको बाँहीक रामटेऽपि च ॥ ९ ॥ महेन्द्रगुग्गुलूलूकव्यालमाहिषु कौशिकः ॥ रुक्तापशङ्कास्त्रातङ्कः स्वल्पेपि क्षुल्लकत्रिषु ॥ १० ॥ जैवातृकः शशाङ्गेऽपि खरेऽप्यश्वस्य वर्तकः || व्यात्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः ॥ ११ ॥ शालातृका: कपिक्रोष्टश्वानः स्वर्णेऽपि गैरिकम् ॥ पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनुते ॥ १२ ॥ शीलान्वयावनूके द्वे शल्के शकलवल्कले ॥ साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥ 9-3 देशेऽवे धीरे च । “इस्खमध्यं व बाल्हिकमिति । बाल्हीकमित्यपि ” ॥ ९ ॥ ब्यालप्रासाहितुण्डिकः । “कौशिको नकुले व्यालग्राहे गुग्गुलुशयोः । विश्वा- मित्रे च कोशझोलूकयोरपि कौशिक" इति विश्वः । रुक् रोगः | तापः संतापः । शङ्का भयं अत्रातक इति नाम । “स्वल्पे अपिशब्दामीचकनिष्ठ- दरिद्वेष्वपि क्षुल्लकः । क्षुल्लकत्रिषु नीचेऽल्पे" इति कोशान्तरात् ॥ १० ॥ जैवा- दफः पुमान्सोमे दीर्घायुःकृषयोतिषु । अपिशब्दात्पक्षिभेदे च बर्तकः । अपिशब्दादमौ दिग्गजादौ च पुंसि पुण्डरीकः । सिताम्भोजादौ क्लीचे च । बवानी ओषधीभेद: अजमोदाख्यः | अपिशब्दादर्हिचूडेऽपि दीपकः प्रका- शेऽपि । “दीप्यक इत्यपि " ॥ ११ ॥ कप्यादयः शालानुकाः स्युः । अपिशब्दाङ्गेरू इति ख्याते धातौ च गैरिकम् । “गैरिकं धातुरुक्मयोः” इति मेदिनी । “व्यलीकमप्रिया कार्यवैलक्ष्येष्वपि पीडने” इति विश्वः ॥ १२ ॥ श्रीलं स्वभावोऽन्वयो वंशः तत्रानुकमिति । “अनूकं तु कुले शीले पुंसि सागतजन्मनि" इति मेदिनी । शकलं खण्डम् | वल्कलं त्वक् द्वे शल्के इति । सुवर्णानां हेनः कर्षाणां साष्टे शतेऽष्टाधिकशतके निष्कः । सहाष्टभिर्वर्तत इति साष्टम् | सराजस्त्वयमितिवत् | यथा हेभि सुवर्णमात्रे उरसो बक्षसो भूषणे हेमपले व दीनारे सांव्यवहारिके द्रव्यमेदे च निष्कः | पलं कर्मच- तुष्टयम् | गुजानामशीतिः कर्षः || १३ || शमलं पुरीषम् । एनः पापम् । "त्रिषु पापाशये कल्कोऽसी विकिद्वेमदन्तयोः" इति विश्वः । "कल्कोकी Diglized by Google