पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८८
[ नानार्थवर्गः
सटीकामरकोशस्य


मारुते वेघसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः ॥
स्यात्पुलाकस्तुच्छघान्ये संक्षेपे भक्तसिक्के ॥ ५ ॥
उलूके करिणः पुच्छमूलोपान्ते च पेचकः ।।
कमण्डलौ च करकः सुगते च विनायकः ॥ ६ ॥
किष्कुर्हस्ते वितस्तौ च शुक्रकीटे च वृश्चिकः ॥
प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥
स्याऋतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च ||
ज्योत्सिकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥
सिते च खदिरे सोमवल्कः स्यादय सिल्हके ||

शब्दो वर्तते । “अर्कोऽर्कपर्णे स्फटिके रखौ ताम्रे दिवस्पतौ" इति मेदिनी ॥४॥ मारुते वायौ बेघसि ब्रह्मणि ब्रह्मे सूर्ये क इत्येकाक्षरं नाम पुंसि । तद्रूपं तु | कः कौ काः इत्यादि देववत् । शिरसि जले च कमिति लीबम् । सुखेऽपि कम् ! " को ब्रह्मणि समीरात्मयमदक्षेषु मास्करे | मयूरेऽऔौ च पुंसि स्यात्सुखशीर्षजलेषु कम्" इति मेदिनी । तुच्छधान्ये तण्डुलशून्ये धान्ये संक्षेपे अविस्तारे भक्तसिक्यके अभावयवे पुलाक इत्येकम् ॥ ५ ॥ करिणो गजस्य पुच्छमूलोपाम्ते गुदाच्छादकमांसपिण्डे उलूकः पक्षिभेदस्तन व पेचकः । कमण्डलौ चकाराद्वर्षीपले दाडिमादौ च करकः । “करकस्तु पुमान् पक्षिविशेषे दाडिमे ऽपि च । इयोर्मेषोपले न स्त्री करकं च कमण्डलौ” इति मेदिन्याम् । सुगते बुद्धे चकाराद्विमराजे गरुडे च विनायकः ॥ ६ ॥ हस्ते हस्तप्रमाणे वितस्तौ च किन्छुः । “प्रकोष्ठेऽप्यनपुंसकः” इति रुद्रः । शुककीटे शूकसशरोमव्याते कीटविशेषे चकारादलौ कर्कटे वृक्षविशेषेऽष्टमराशौ च वृश्चिकः । प्रतिकूले प्य प्रतीकः । तत्र प्रतिकूले त्रिषु | अवयवे पुंसि ॥ ७ ॥ भूनिम्बे किराततिक्ते कत्तृणं भूस्तुणं च गन्धतृणविशेषौ तत्र भूतिकम् । ज्योत्स्नकायां पटल्यां “धोषे अपमार्गे च " कोशातकी । “कोशातकः कचे पुंसि पटोल्यां घोष के स्त्रियाम्” इति मेदिनी ॥ ८ ॥ कट्फले कायफल इति ख्याते वृक्षभेदे शुलखदिरे च सोमवल्कः । सोम इष वल्को बल्फलमस्य । सिल्हके पण्यभेदे तिलकल्के निःस्नेहतिलचूर्णेच पिण्याक: । रामठे हिनि । चकाराद्वाल्हिके