पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29-34 सटीकामरकोशल्य संवीक्षण विचयनं मार्गणं मृगणा सुगः ॥ परिरंम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३० ॥ निर्वर्णनं तु निष्यानं दर्शनालोकनेक्षणम् || प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥ २८४ [ संकीर्णवर्गः उपशायो विशाय पर्यायशयनार्थको || अर्तनं च ऋतीया च हणीया च घृणार्थकाः ॥ ३२ ॥ स्यात्यासो विपर्यासो व्यत्ययश्च विपर्यये || पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ३३ ॥ प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् || स संस्तावः ऋतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥ ३४ ॥ “अन्वीक्षणं अन्वेषणं गवेषणं चेत्यपि " | विचयनं मार्गणं मृगणा मृगः पद्म तात्पर्येण वस्तूनां गवेषणस्य | परिरम्भः “परीरम्भ इत्यपि" परिष्यङ्गः संश्लेषः उपगूहनं चत्वारि आलिङ्गना ॥ ३० ॥ निर्वर्णनं निध्यान दर्शनं आलोकनं ईक्षर्ण पञ्च निरीक्षणस्य । “दर्शनालोकलक्षणमित्यपि पाठः" । प्रत्याख्यानं निरसनं प्रत्यादेशः निराकृतिः चत्वारि निराकरणस्य ॥ ३१ ॥ उपचायः विशायः धौ पर्यायेणानुक्रमेण यत्प्रहरकादीनां शयनं तदेवार्थो यगोरखौ यथा । अर्तनं ऋतीया हणीया हणिया । “मोहो वीज्या जुगुप्सा च हणीया हणिया घृणा" इति वाचस्पतिः । “हिणीया इणिया थ" इति द्विरूपकोशामर- मालयोः । घृष्णा चत्वारि जुगुप्सायाः । करुणाया इति कचित् । ऋतिः सौत्रो धातुः । जुगुप्सायामिति बहवः । कृपायामिति केचित् । “घृणा जुगुप्साकपयो: " इति विश्वः ॥ ३२ ॥ व्यत्यासः विपर्यासः व्यत्ययः विपर्ययः “ विपर्याय इति भरतमालायाम् " चत्वारि व्यतिक्रमस्य | पर्ययः अतिक्रमः अतिपातः उपात्ययः चत्वारि अतिक्रमस्य ॥ ३३ ॥ समाहूय महत्यादीनां प्रेषणं तत्र प्रतिशासनं स्यात् एकम् । ऋतुषु द्विजन्मनां छन्दोगानां स्तुतिभूमिः स्तवनदेशः संस्तावः एकम् | समेत्य स्तुवन्त्यत्र संस्तावः । “यशे समि स्तुबः" इति घन् ।। ३४ ॥ यस्मिन्काष्ठे कातुं निघाय तभ्यते तनूकिमते स काहरूप आधार Digtized by Google ·*