पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2-5. सटीकामरकोशस्य [ संकीर्णवर्गः यहच्छा खैरिता हेतुशून्या त्वस्या विलक्षणम् || २ || शमयस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः || अवंदानं कर्म वृत्तं काम्यदानं प्रवरणम् ॥ ३ ॥ वशक्रिया संवननं मूलकर्म तु कार्मणम् || विघूननं विधुवनं तर्पणं प्रीणनावनम् ॥ ४ ॥ पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ॥ सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ॥ ५ ॥ आक्रोशनमभीषङ्गः संवेदो वेदना न ना ॥ २७८ गकार्त्स्यपारगतावपि” इति मेदिनी । आसङ्गः आसक्तिस्तद्वचनं क्रमेणैकैकम् । यहच्या खैरिता द्वे खच्छन्दताया: । हेतुशून्या कारणरहिता आस्या स्थिति- विलक्षणं स्यात् विगतं लक्षणमालोचनं यत्र । तदुक्तं भागुरिणा | "विलक्षणं मतं स्थानं यद्भवेभिष्प्रयोजनम्” इति । एकम् ॥ २ ॥ समथः शमः शान्तिः त्रयं चित्तोपशमस्य । दान्तिः दमथः दमः त्रयमिन्द्रियनिग्रहस्य | वृत्तं कर्म भूतपूर्व चरित्रं तदवदानं एकम् । प्रशस्तकर्मणो बा । “अपदानमित्यपि पाठः 1 काम्यदानं काम्यस्य तुलापुरुषादेर्दानं तत्मवारणं एकम् । प्रहारणमिति भरतमालायाम् | "प्रवारणं महादानम्" इति त्रिकाण्डशेषः ॥ ३ ॥ वशक्रिया संवननं "संवदनम् " । " स्यात्संवदनमालोचे वशीकारे नपुंसकम्" इति मेदिनी । द्वे मणिमत्रादिना वशीकरणस्य | भूलकर्म ओषधीनां मूलैरुचा- टनादि यत्कर्म तत्कार्मणमेकम् । विधूननं विधुवनं “ विधुननमित्यपि जटा- घर: " द्वे कम्पनस्य । तर्पण प्रीणनं अवनं त्रीणि तृसेः ॥ ४ ॥ पर्याप्तिः परित्राणं हस्तधारणं "इस्तवारणमित्यपि " श्रीणि नषोद्यतनिवारणस्य । सेवनं सीवनं स्यूतिः त्रयं सूचीक्रियायाः | शिवणे इति लौकिकभाषायाम् । “सेवस्तु सेवनं स्यूतिरिति पाठो वा " | विदरः स्फुटनं "स्फोटनमिति भर- तमालायाम् " | मिदा श्रयं द्विधाभावस्य । उकलणें इति लौकिकभाषायाम् ॥५॥ आक्रोशनं अमीषङ्गः अभिषङ्गः इत्यपि । “उपसर्गस्येति दीर्घत्वविकल्पात्" द्वे गालिप्रदानस्य शिव्या देणें इति प्रसिद्धस्य | संवेदः वेदना द्वे अनुभवस्य । तत्र वेदना न पुमान् । “अतो वेदनमित्यपि” । संमूर्छनं अभिव्याप्सिः द्वे सर्वतो व्याप्तेः । १ 'स्वाय' इत्यत्र 'स्वास्था' इत्यप्रपाठ एवेत्यमे २१ लोकतोञ्चगम्यते ।। Dighized by Google