पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] तृतीयं काण्डम्. प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् || कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥ साकल्यासङ्गवचने पारायणपरायणे । २७७ नामानि प्रकरणैः सजातीयानि निषद्धानि । अत्रापि काण्डे सुकृत्यादीनि विशेष्यनिमानि न्यवनात् । इदानीं पूर्वेषां संकीर्णत्वापत्तिभयेन पे पूर्व नोक्तांस्तत्संग्रहार्थ संकीर्ण प्रकरणमारभते ॥ अत्र हि कर्मक्रियादयो भाव- समूह - बचनाः । अपरस्परादिर्विशेष्यनिमः । स्तम्बनादि: करणवचनः । तथा वचन आपूपिकादिः । एवं संकीर्णै: संकीर्णायैः संकीर्णलिङ्गैच कथनात्सं- कीर्णवर्गोऽयम् । भिन्नजात्यर्थसंसर्ग एव हि संकरः । स चात्र प्रायेण विद्यत इति इहैव तव्यपदेशः । नन्वत्र संकीर्णत्वे विशेषविधानाभावे च कथमत्र लिङ्ग- ज्ञानं स्यादित्याकाङ्क्षायां तदुपायमाह । प्रकृतीति । संकीर्णनानि अत्र वर्गे वक्ष्यमाणलिङ्गसंग्रहोक्तरीत्या प्रकृत्यर्थेन प्रत्ययार्थेन च आद्यशब्दात्कचि- द्वपमेदादिना लिङ्गमुमयेत् ऊहेत् । तत्र प्रकृत्यर्थेन गया । अपरस्परेति विम क्तिप्रकृतित्वात्प्रकृतिः | तस्याः सततक्रियासंबन्धात् क्रियायोगः | अपरत्वा- दिगुपयोगथ | एवं गुणद्रव्यक्रियायोगोपाधिभिः परगामिन इत्यभिधेय लिङ्गत्वम् । प्रत्ययार्थेन यथा । स्फातिप्रभृतीनां क्तिमादिप्रत्ययान्तानां सीमा- बादावनितिमिति बक्ष्यमाणत्वात्त्रीलिङ्गत्वम् । तथा संधिप्रभृतीनां किप्रत्य यान्तानां को धोः किरिति वक्ष्यमाणत्वात्पुंस्त्वम् । रूपभेदेन कर्मादे: लीप- त्वादि । साहचर्येण च डिम्बे डमरविष्टवाविति डिम्बस्य पुंस्त्वम् । संकीर्ण इत्युपलक्षणम्, वर्गान्तरेष्वप्यनिश्चितलिङ्गानां मुत्प्रीतिरित्यादीनां प्रकृतिप्रत्य- यादिभिरेव लिङ्गनिश्रयात् । कर्म क्रिया द्वे क्रियायाः । तच्छब्देन किया परामृश्यते । क्रिमासातत्ये गम्ये सति अपरस्परा इत्येकं नाम । अपरस्पराः सार्था गच्छन्ति । अपरे च परे च सहाः सततं गच्छन्तीत्यर्थः । सातत्यमनि- च्छेदः । “अपरस्पराः क्रियासातत्ये" इति सुद् निपात्यते । सातत्ये किम् । अपरस्परा सकृद्रच्छन्ति । वाच्यलिङ्गत्वादपरस्परा योषितः । अपरस्पराणि कुलानि । “निर्दिष्टं कर्मसातत्यं सुधीभिरपरस्परम्” इति भागुरिणोकत्वात् । तत्सातत्ये क्रियायाः क्रियावतां च नैरन्तर्ये । तद्यथा | "क्रियासातत्ये अपर- स्परं गच्छन्ति । क्रियावतां च सातत्ये तु लित्रयम्” ॥ १ ॥ साकल्यवचनं पारायणम् । पारस्पायनम् । पूर्वपदादिति णत्वम् । आसङ्गवचनं "परावर्ण तुरायणमिताधि पाठः " | "तुर त्वरणे" | तुरस्य अयनम् । "पारायणं समास- Digized by Google A.