पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I 107-41:2 २७६ सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते । ऊँरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥ संगीर्णविदतसंश्रुतसमाहितोपश्रुतोपगतम् ।। ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥१०९॥ अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ॥ भक्षितचर्वितलीढंप्रत्यवसितगिलितखादित सातम् ॥११०॥ अभ्यवहृतान्नजग्घग्रस्तग्लस्ताशितं भुक्ते ॥ क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥ क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः ॥ साधिदाधिष्ठस्फेष्ठगरिष्ठद्रसिष्ठवृन्दिष्ठाः ।। ११२ ।। बाढव्यायतबहुगुरुवामनवृन्दारकातिशये ॥ इति विशेष्यनिम्नवर्गः ॥ १ ॥ ॥ कृतं " उरीकृतमित्यपि " उररीकृतं अङ्गीकृतं आश्रुतं प्रतिज्ञातम् ॥ १०८ ॥ संगीण विदितं संयुतं समाहितं उपश्रुतं “प्रतिश्रुतमित्यपि " उपगतं एका- दशाङ्गीकृतस्य | ईलितं शस्तं पणायितं पनायितं प्रणुतं पणितं पनितम् । संगीर्ण संविदितं संश्रुतमित्यपि कचित्पाठः ॥ १०९ ।। गीर्ण वर्णित अभि- हुतं ईडितं स्तुतं द्वादश स्तुतार्थानि । भक्षितं चर्वितं लीढं “लिप्तमित्यपि " प्रत्यवसितं गिलितं खादित प्सातम् ॥ ११० ॥ अभ्यवहृतं अर्थ जग्धं प्रस्तं ग्लस्तं अशितं भुक्तं चतुर्दश खादितस्य । “प्सा भक्षणे" प्सातम् । “अद्यते म अन्नम् " । क्षेपिष्ठादयः क्षिप्रादीनां प्रकर्षार्थाः । प्रकर्षोऽर्थो येषां ते तथा अतिशयविशिष्टेषु क्षिप्रादिषु क्रमेण वर्तन्त इत्यर्थः । यथाऽतिशयन क्षिप्रः क्षेपिष्ठः । अतिशयेन क्षुद्रः क्षोदिष्ठः । अत्र प्रेष्ठादिचतुष्टये प्रियोरुस्थूलबहुला एवेष्ठनः प्रकृतयः । अभीप्सितादीनां निर्देशस्तु तत्पर्यायत्वात् । अतिशयेन प्रियः प्रेष्ठः इत्यादि । एकैकम् ॥ १११ ॥ ११२ || बाढादीनामतिशये साविष्ठादयः स्युः । अत्र व्यायतबहुवामना दीर्घस्फिरहखानां पर्यायाः । अतिशयेन वाढ: साधिष्ठः । एवं वृन्दारकान्तेषु अतिशयविशिष्टेषु द्राषिष्ठादिक्रमेणैकैकं ज्ञेयम् । “वृन्दारको मुख्यः ” ॥ इति विशेष्यनिघ्नवर्गः ॥ १ ॥ पूर्वकाण्डद्वये स्वर्गादि- Diglized by Google