पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १] • तृतीयं काण्डम्. प्रसव्यं प्रतिकूलं स्यादपसव्यमपटु च ॥ वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् ॥ ८४ ॥ संकटं ना तु संबाघः कलिलं गहनं समे ॥ संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम् ॥ ८५ ॥ ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् || अन्तर्गतं विस्मृतं स्यात्माप्रणिहिते समे ॥ ८६ ॥ वेलितप्रेविताधूतचलिताकम्पिता धुते ॥ नुत्तनुन्नास्तनिष्ठ्यूँताविद्धक्षिप्तेरिताः समाः ॥ ८७ ॥ परिक्षिप्तं तु निवृतं भूषितं मुषितार्थकम् ।। २७१ 83-87. चत्वारि विपरीतस्य । 'प्रगतं सव्यात्प्रसव्यम्" यद्दामं शरीरं तत्सव्यं एकम् । यदक्षिणं शरीरं तदपसव्यं एकम् ॥ ८४ ॥ संकटं संबाधः द्वे अल्पा- बकाशे वर्त्मादौ । ना पुनान् । कलिलं गहनं द्वे दुरधिगम्यस्य । यथा गहनं शास्त्रम् | दुर्ज्ञानमित्यर्थः । संकीर्ण संकुलं आकीर्ण त्रीणि जनादिभिरत्यन्तमि- अस्य | यथा संकीर्णवर्गः । केचित्तु एतान्पूर्वपर्यायानाडुः । संकीर्णमृषिप- सीनामिति योगात् । सृण्डितं परिवापितं द्वे कृतमुण्डनस्य ।। ८५ ।। प्रन्थितम् । ग्रथितमित्यपि पाठः । सन्दितं "गुम्फितं गुफितं चेत्यपि पाठः " दृन्धं त्रीणि गुम्फितस्य । विसृतं विस्तृतं ततं त्रीणि लब्धप्रसरस्य । “विस्तीर्यते स विस्तृ- तम्” । अन्तर्गतं विस्मृतं द्वे "विस्मृतस्य । विसर्यते स विस्मृतम् " । प्राप्तं प्रणिहितं द्वे लब्धस्य | "प्राप्यते स प्राप्तम् " ॥ ८६ || वेल्लितः प्रेक्षितः आभूतः चलितः आकम्पितः धुतः षडीषत्कम्पितस्य । “वेलयते स बेल्लितः । "वेल चलने” । “प्रेसोलितस्तरलितोल्लासितान्दोलितावपि ” इति कोशान्तरम् । नुत्तः नुमः अस्तः निथ्यूतः " निष्हूत इत्यपि " । आविद्धः क्षितः ईरितः सप्त प्रेरितस्य । “नुद्यते स नुत्तः " ॥ ८७ ॥ परिक्षिप्तं निवृतं द्वे प्रकारादिना सर्वतो बेष्टितस्य । निवियते स निवृतम् । “वृञ् आवरणे" । भूषितं श्रुषितं द्वे चोरितस्य " मुष्यते स मूषितम् " | प्रवृद्धं प्रसृतं द्वे प्रसरणयुक्तस्य । “ प्रसरति स प्रसृतम् ” । न्यस्तं निसृष्टं द्वे निक्षितस्य | निसृज्यते स निसृष्टम् | "सृज विसर्गे " | गुणितं आहतं द्वे पेभ्याषर्तितस्य । मथा पञ्चमिराहतामत्वारो Diglized by Google'