पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सटीकामरकोशस्य ॥ प्रत्यक्षं स्यादैन्द्रियकर्मप्रत्यक्षमतीन्द्रियम् एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि ।। ७९ ॥ अप्येकसर्ग एकाग्योऽप्येकायनगतोऽपि सः || पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ८० || अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः || मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥ साधारणं तु सामान्यमेकाकी त्वेक एककः ॥ भिन्नार्थका अन्यंतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥ उच्चावचं नैक भेदमुच्चण्डमविलम्बितम् ॥ अरुन्तुदस्तु मर्मस्पृगबाघं तु निरर्गलम् ॥ ८३ ।। २७० [ विशेष्यनिघ्नवर्गः कम् । अप्रत्यक्षं अतीन्द्रियं द्वे इन्द्रियैरग्राह्यस्य धर्मादेः । अनध्यक्षमित्यपि पाठः। "अपरोक्षमैन्द्रियक परोक्षं स्यादतीन्द्रियम्” इति । एकतानः अनन्यवृत्तिः एकाग्रः एकायनः ॥ ७९ ॥ एकसर्गः एकाग्र्यः एकायनगतः ससैकाग्रस्य । एकं तानयति एकतानः । “तनु श्रद्धोपकरणयोः” । आदि: पूर्वः पौरस्त्यः प्रथमः आद्यः पञ्चकमाद्यस्य | पुरो भवः पौरस्त्यः । “दक्षिणापश्चा" इति त्यक्- प्रत्ययः । “आ प्रथमं दीयते गृह्यते आदि: " । तत्रादिः पुंस्येव || ८० || अन्तः जघन्यं चरमं अन्त्यं पाश्चात्यं पश्चिमं पण्डन्त्यस्य । तत्रान्तः पुत्रपुंसकयो रेव | यथा खच्छन्दा स्त्री कुलस्यान्तः । मोघं निरर्थकं द्वे व्यर्थस्य । “निर्ग- तोऽर्थो यसात्तनिरर्थकम् ' । स्पष्टं स्फुटं प्रव्यक्तं उल्वर्ण चत्वारि “स्पष्टस्य” ॥ ८१ ॥ साधारणं सामान्यं द्वे । एकमप्यनेकसंबन्धि साधार- णम् । जातिवाचि सामान्यं तु क्लीबम् । एकाकी एकः एककः त्रयमसहाये । मित्रः अन्यतरः “एकतर इति पाठः " एकः त्वः अन्यः इतरः षट् मिन्ना- र्थकाः मिनस्य वाचका इत्यर्थः । त्वशब्द: सर्ववत् | त्वौ वे ॥ ८२ ।। उच्चावचं नैकभेदं द्वे बहुविधस्य | उदक् | च अवाक् च उच्चावचम् | मयूरर्व्य- सकादिः । उच्चण्डं अविलम्बितं "अविलम्बनमिति क्षीरस्वामी" द्वे तूर्णस्य | अरुन्तुदः मर्मस्पृक् द्वे मर्मभेदिनः । मर्मस्पृशौ | अबाधं निरर्गलं द्वे निर्बाधस्य । “न बाधाऽस्य अनाघम्" ॥ ८३ ॥ प्रसव्यं प्रतिकूलं अपसव्यं अपशु Dighazned by Google । ।