पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] तृतीयं काण्डम्. चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् ।। चलनं कम्पनं कम्णं चलं लोलं चलाचलम् ॥ ७४ ॥ ·चथलं तरलं चैव पारिप्लवपरिप्लवे || अतिरिक्तः समधिको दृढसंघिस्तु संहतः ॥ ७५ ॥ कर्कश कठिनं क्रूरं कठोरं निष्ठुरं दृढम् ।। जठरं मूर्तिमन्मूर्त प्रवृद्धं प्रौढमेघितम् ॥ ७६ ॥ पुराणे प्रतनमनपुरातनचिरन्तनाः || प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥ नूतश्च सुकुमारं तु कोमलं मृदुलं मृदु ॥ अन्वगन्वक्षमनुगेऽनुपदं क्लीषमव्ययम् ॥ ७८ ॥ २६९ 73-78 तरः द्वे अचरस्य ||७३|| चरिष्णु जङ्गमं चरं त्रसं इङ्गं चराचरम् । “चरिचलिपति" इति वार्तिकेन चरतेद्वित्वे अभ्यासस्याकारः । एवं चलाचलं इत्यत्रापि । षट् चरस्य । “चरणशीलं चरिष्णु” । चलनं कम्पनं कम्प्रे त्रयं कम्पशीलस्य । चलं लोलं चलाचलम् ||७४॥ चञ्चलं तरलं पारिप्लवं सतकं चलस्य | परिलवते पारिप्लवम् । चपलं चटुलं चैवेत्यपि पाठः । अतिरिक्तः समधिकः द्वे अधिकभूतस्य । “सम्यगधिकः समधिकः " । दृढसन्धिः संहतः द्वे दृढसन्धानयुक्तस्य || ७५ ॥ कर्कचं कवटम् । खक्खटमिति कबर्गद्वितीयादिरपि । कठिनं क्रूरं कठोरं निष्ठुरं दृढं जठरं मूर्तिमत् मूर्ते नव कठिनस्य | "मूर्तिः काठिन्यम- स्यास्ति मूर्तिमत्" । जठरं टवर्गद्वितीयमध्यम् । प्रवृद्धं औढं एघितं त्रयं प्रवृ द्धस्य ।। ७६ ।। पुराणं प्रतनं प्रत्नं पुरातनं चिरन्तनं पश्च पुरातनस्य | पुरा भवं पुराणम् | सायंचिरेतिसाधुः पुराणप्रोक्तेति निपातनात् । पुराणं प्रत- शास्त्रयोरित्युक्तत्वात् । प्रत्यग्रः अभिनवः नव्यः नवीनः नूतनः नवः ॥ ७७ ॥ नूतः सप्त नूतनस्य । “प्रतिनवमग्रमस्य प्रत्यग्रः ” । सुकुमार कोमलं मृदुलं मृदु चत्वारि कोमलस्य । अन्वक् अन्वक्षं अनुगं अनुपदं चत्वारि पयादि- त्यर्थे । अव्ययीभावत्वात्कीनमव्ययं च । “पदस्य पत्रादनुपदम् " ॥ ७८ ॥ प्रत्यक्षं “समक्षमित्यपि " ऐन्द्रियर्क द्वे इन्द्रियग्रासस्य | इन्द्रियेणानुभूतं ऐन्द्रिय- Diglized by Google