पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] तृतीयं काण्डम्. समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ॥ ३७ ॥ रवणः शब्दनो नादीवादी नादीकरः समौ ॥ जडोऽज्ञ ऍडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥ तूष्णींशीलस्तु तूष्णीको नमोऽवासा दिगम्बरे || निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिकृतः ॥ ३९ ॥ आत्तगँर्वोऽभिभूतः स्याद्दापितः साधितः समौ ॥ प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥ ४० ॥ २६१ 37-4.0 " “रथवदयोध” इति कोः कदादेशः । गर्ह्य वदति गर्ह्यवादी " | कुवादः कुचरः द्वे दोषकथनशीले । “कुत्सितं चरति कुचरः" । असौम्यस्वरः अस्वरः द्वे काकादिस्वरवदपस्वरयुक्तस्य ॥ ३७ ॥ रवणः शब्दनः द्वे शब्दशीलस्य । नान्दीवादी नान्दीकर: द्वे स्तुतिविशेषवादिनः । “ नान्दीं बदति तच्छीलः नान्दीवादी" | "आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रवर्तते || देवद्विजनृपादीनां तस्मानान्दीति कीर्त्यते” इति भरतः । जडः अज्ञः द्वे अस्यन्तमूढस्य | यदुक्तम् । “इष्टं वानिष्टं या सुखदुःखे वा न चेह यो मोहात् । विन्दति परवशगः स मवे- दिह जडसंज्ञकः पुरुषः" इति । यो वक्तुं श्रोतुं च शिक्षितो न भवति स. एडमूकः । अनेडसूक इति पाठे नास्त्येडो मूकोऽसादिति विग्रहः । एडो बधिरः । “त्रिलिङ्गोऽनेडमूकः स्याच्छठे वाक्श्रुतिवर्जितः” इति रमसः ॥ ३८ ॥ तूष्णींशीलः तूष्णीकः द्वे तूष्णीम्भावयुक्तस्य । शीले को मलोपत्रेति बार्ति- केन तूष्णीमो मस्य लोपः । “तूष्णीं शीलं यस्य तूष्णींशील: " । नमः अवासाः दिगम्बरः त्रीणि नमस्य । अवाससौ । निष्कासितः निष्कामित इत्यपि । अवकृष्टः द्वे निर्गमितस्य । अपध्वस्तः धिकृतः द्वे निर्भत्सितस्य ॥ ३९ ॥ आत्तगर्वः आसगन्धः । “गन्धो गन्धक आमोदे लेशे संबन्धगर्वयो:" इति बिश्वः । “गन्धो गर्यो लवोऽपि च" इति त्रिकाण्डशेषः । अभिभूतः द्वे भग्न- दर्पस्य । “आत्तगन्धः पलायितः” इति कोशान्तरे । पलायनकर्तुरपि । लक्ष्यम् । "कर्णोऽपि भूत्वा कथमातगन्धः" इति भारतचम्पू: । “चत्वारोऽपि पर्याया इत्येके” । दापितः “दायित इत्यपि । तत्र दय दाने इति धातुः " साघितः द्वे " धनादिकं प्रदापितस्य प्रदापितस्य धनादेर्वा ” । “धनादिकं दापयतीति दापितः” इति राजमुकुटः / नेत्यादिष्टादि चतुष्कं निराकृतस्य ॥ ४० ॥ Digitized by Google