पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-33-3b सटीकामरकोशस्य. [ विशेष्यनिनवर्गः पराङ्मुखः पराचीनः स्यादवाङयधोमुखः ॥ ३३ ॥ देवानथति देवय विष्वँग्रङ् विष्वगवति || यः सहायति सध्यङ् स स तिर्यङ् यस्तिरोंऽञ्चति ॥ ३४ ॥ वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ॥ वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५ ॥ स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्हावाक् || दुर्मुखे मुखराबद्धमुखौ शक्ः प्रियंवदे || ३६ ॥ लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कदः || २६० परामुख: " । अवाङ् अधोमुख: द्वे “अवाश्चत्यधोमुखीभवति अवाङ्" अवाश्रौ ॥ ३३ ॥ यो देवानञ्चति गच्छति पूजयति वा स देवधम् । एकम् । चान्तम् " । स्त्रियां देवद्रीची” । यो विष्वक् समन्तादश्चति गच्छति स विष्वन्यङ् "विष्यव्यङ् इति तालव्यमध्योऽपि " | त्रियां विष्वद्रीची । “विष्वग्देवयो टेरपश्चतावप्रत्यये” इति पाणिनिः । चान्तं एकम् । यः सहाञ्चति तुल्यं गच्छति स सध्यङ् | एकम् | सध्ययौ । स्त्रियां सधीची । “सहस्य सध्रिः” इति पाणिनिः । यस्तिरो वक्रमञ्चति स तिर्यङ् । एकम् । “तिरसस्तिर्यलोपे" इति पाणिनिराह ॥ ३४ ॥ वदः वदावदः वक्ता श्रीणि वक्तरि | वागीशः वाक्पतिः द्वे अनवद्योदामवादिनि । वाचोयुक्तिपटु: "पटुरिति पृथगपि ” । "वाग्मी पटौ सुराचार्ये" इति विश्वमेदिन्यौ । वाम्मी द्वे नैयायिकस्य | वाचो- युक्तीति वाग्दिगिति पछ्या अलुक् । “प्रशस्ता वागस्य वाग्मी " । चावदूकः अतिवक्ता द्वे बहुभाषिणि ॥ ३५ ॥ जल्पाकः बाचाल: वाचा : बहुगर्सवाक चत्वारि यो बहु अवाच्यं वक्ति तस्य । कुत्सितं बहु भाषते वाचालः वाचाटः । "आलजाटचौ बहुभाषिणि" इति सूत्रेण साधु । जल्पाकी । विवात्त्रियां ढी । दुर्मुखः सुखरः अबद्धमुखः त्रयमनर्गलमुखस्य | "निन्दितं सुखमस्य सुखरः । न बद्धं नियमितं मुखमख अबद्धमुखः " । शक्लः प्रियंवदः द्वे प्रिय- वादिनि । शक्नोति वक्तुमिति शक्त इति स्वामी । शन इति सर्वधरः ।। ३६ ॥ लोइलः अस्फुटवाक् द्वे अस्फुटवादिनि । “न स्फुटा वागस्यास्फु टयाक्” । गर्मवादी कद्रदः द्वे कुत्सितमापिणि । कुत्सितं मति कद्रदः । Diglized by Google