पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] तृतीयं काण्डम्. २५९ शरारुर्घातको हिंसः स्यादर्धिष्णुस्तु वर्धनः ॥ २८ ॥ उत्पतिष्णुस्तृत्पतिताऽलकरिष्णुस्तु मण्डनः || भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥ निराकरिष्णुः क्षिप्तुंः स्यात्सान्द्रस्निग्धस्तु मेदुरः || ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः ॥ ३० ॥ विसृत्वरो विसृमरः प्रसारी च विसारिणि || सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३१ ॥ क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः ॥ जागरूको जागरिता घूर्णितः प्रचलायितः ॥ ३२ ॥ स्वभक् शयालुर्निद्रालुर्निद्राणशयितौ समौ ॥ 28-32 वर्धनः द्वे वर्षनशीलस्य । “वर्धते तच्छीलः वर्धिष्णुः " ॥ २८ ॥ उत्पतिष्णुः उत्पतिता द्वे उत्पतनशीलस्य । “उत्पतति तच्छील: उत्पतिष्णुः" । अत्र ये तृमिष्णुचूस्नुक्रुक्मरजित्यादयः प्रत्ययास्ते तच्छीलतद्धर्मतत्साधुकारिषु बोद्धव्याः | ताच्छील्ये प्रयोगः प्रायेण । अलङ्करिष्णु: मण्डन: द्वे अलङ्करण- शीले । भूष्णुः भविष्णुः भविता त्रीणि भवनशीले । वर्तिष्णुः वर्तनः द्वे वर्तनशीले ॥ २९ ॥ निराकरिष्णु: क्षिमुः “क्षिष्णुरिति केचित् " द्वे निराकर्तरि । सान्द्रो घनः स चासौ स्त्रिग्घश्य सान्द्रस्निग्धः मेदुरः स्यात् एकम् | यल्लक्ष्यम् । मेघैर्मेदुरमम्बरमिति | ज्ञाता विदुरः विन्दुः त्रयं ज्ञातरि । “वेदनशीलः विदुरः" विकासी "तालव्यान्तोऽपि " विकस्वरः “विक- श्वर इत्यपि " द्वे विकासशीले ॥ ३० ॥ विसृत्वर: विटमरः प्रसारी विसारी चत्वारि प्रसरणशीले । सहिष्णुरित्यादिषद् क्षमाशीले ॥ ३१ ॥ क्रोधन: अमर्पण: कोपी त्रीणि कोपशीलस्य । “अवश्यं कृप्यति कोपी " । चण्ड: अत्यन्तकोपनः द्वे अतिक्रोधशीले । जागरूक: जागरिता द्वे जागरण- शीले । चूर्णितः प्रचलायितः द्वे निद्राघूर्णितस्य । घूर्ण भ्रमणे । “प्रचलाया जाताऽस्येति प्रचलायित " ॥ ३२ ॥ स्वप्नक् शयालु: निद्रालु: त्रीणि निद्राशीलस्य । “शयालु: स्यादजगरे निद्राशीले च कुकुरे" इति विश्वमे- दिन्यौ । खप्नजौ । निद्राण: "निद्रित इत्यपि " शयितः द्वे सुतस्य । परा- मुखः पराचीन: विमुखस्य । 'पराअत्यनमिमुखीभष 44 Digitized by Google