पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ १] तृतीयं काण्डम्. सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः ॥ हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ ३ ॥ प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ॥ वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥ पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥ दक्षिणीयो दक्षिणाईस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥ स्युर्वदान्यस्थूललक्ष्यैदानशौण्डा बहुप्रदे || जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥ 2-1 २५३ । धात्र्यामलक्योः स्याद्धन्यं पुण्यवति त्रिषु” इति विश्वमेदिन्यौ । सुकृतम- स्यास्ति सुकृती । धनं लब्धा धन्यः धनायाई इत्यर्थः । महेच्छ: महाशयः द्वे उदारं चित्तं यस्य तस्य दयालोः । “आशयः स्यादभिप्राये मानसाधार- योरपि " इति मेदिनी | हृदयालुः सुहृदय: "सहृदय इति पाठः । अत्र प्रश स्तपरत्वं हृदयशब्दस्य | हृदयवान् हृदयिक इत्यपि " द्वे यस्य चित्तं प्रशस्तं तस्य । महोत्साहः महोघमः द्वे दुरापेऽपि कृत्येऽध्यवसितक्रियस्य । 46 महा- नुद्यमो ऽस्य महोद्यमः " ॥ ३ ॥ प्रवीणः निपुणः अभिज्ञः विज्ञः निष्णातः शिक्षितः वैज्ञानिक: "श्रीह्मादित्वाहनि विज्ञानिक इत्यपि " कृतमुखः कृती कुशलः दश प्रवीणस्य । “ कृतं कर्म प्रशस्तमस्य कृती" ॥ ४ ॥ पूज्यः प्रती- क्ष्यः द्वे । एतल्लक्ष्यम् । “भक्ति: प्रतीक्ष्येषु कुलोचिता ते” इति । सांशयिकः संशयापनमानसः द्वे संशयमापनं मानसं यत्र स्थाप्यादौ तस्य । तथा च संशयविषयीभूतोऽर्थः सांशयिक इति दीक्षिताः । संशयमापत्र इति ठम् । दक्षिणीयः दक्षिणाई: दक्षिण्यः " दाक्षिण्य इत्यपि " त्रीणि यो दक्षिणामर्हति तस्य ॥ ५ ॥ वदान्यः "वदन्य इत्यपि " स्थूललक्ष्य: "स्थूललक्ष इत्यपि " दानशौण्डः बहुप्रदः चत्वारि दानशूरस्य । “मां याचस्खेति बदति वदान्यः | स्थूलैर्महद्भिर्लक्ष्यते स्थूललक्ष्यः ।" जैवादकः आयुष्मान् द्वे "जैवातृकः पुमा न्सोमे कृषकायुष्मतोखिषु” इति विश्वमेदिन्यौ | अतिशयितमायुरस्यायुष्मान् । अन्तर्वाणिः शास्त्रवित् द्वे शासशस्य । “अन्तर्वाणयति । वण शब्दे । ” ॥ ६ ॥ परीक्षकः कारणिकः द्वे प्रमाणैरर्थनिधायकस्स । “करनैयरति कारणिकः । " 27 " Digheized by Google