पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1.2 अय सटीकामरकोशस्य तृतीयं काण्डम्. विशेष्यनिः संकीर्णैर्नानार्थैरव्ययैरपि । लिङ्गादिसंप्रर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ १ ॥ स्त्रीदाराद्यैर्यदिशेष्यं यादृशैः प्रस्तुतं पदैः || गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २ ॥ श्रीगणेशाय नमः ॥ ॥ अथ तृतीयकाण्डो व्याख्यायते । तत्र वक्ष्यमाण- वर्गानाह । विशेष्यनिमैरिति || सामान्ये साधारणत्वात्सामान्याख्येऽस्मि - न्काण्डे विशेष्यनिमैर्विशेष्यं स्त्रीदारादि पूर्वोक्तं तदधीनलिङ्गवचनैः सुकृत्या- दिभिः शब्दैः तथा संकीर्णैः परस्परविजातीयार्थैः कर्मपारायणादिभिः तथा नानार्थैः अनेकार्थेषु वर्तमानैर्नाकलोकादिभिः अव्ययैरादादिभिर्लिंङ्गसंग्रहै: स्त्रियामीद्धिरामैकाजिस्यादिभिरादिशब्दानामसंग्रहै लङ्काशेफालिकेत्या- दिभिः शब्दैरुपलक्षितास्तत्तनामका वर्गाः वक्ष्यन्त इति शेषः । ते च वर्गाः स्वतत्रा नेत्याह । वर्गसंश्रया इति । वर्गाः संश्रया येषां ते । पूर्वोक्तस्वर्गा- दिवर्गसंबन्धिन एवेत्यर्थः ॥ १ ॥ इह शास्त्रे रूपादिभेदेनैव प्रायशो लिङ्गनि- र्णयः तद्वदेवात्रापि वर्गे स्यादिति भ्रमनिरासार्थ व्यापकं लक्षणमाह । स्त्रीदाराद्यैरिति । यादृशैः स्त्रीलिङ्गत्वादियुक्तैः स्त्रीदाराद्यैः पदैर्यद्विशेष्यं स्त्रीदारादिरूपं यथा प्रस्तुतं प्रक्रान्तं तस्य विशेष्यस्य भेदका व्यावर्तका गुण- द्रव्यक्रियाविशिष्टाः शब्दास्तथा स्युः । विशेष्यस्य यादृशे लिङ्गवचने तादृश- लिङ्गवचना एव भवेयुरित्यर्थः । तत्र गुणः सुकृतादिस्तद्विशिष्टो यथा । सुकृ- तिनी स्त्री | सुकृतिनो दाराः । सुकृति कुलम् । द्रव्यं दण्डादि तद्विशिष्टो यथा । दण्डिनी स्त्री दण्डिनो दाराः । दण्डि कुलम् | क्रिया पचनादिव्यापार- स्तद्विशिष्टो यथा । पाचिका स्त्री । पाचका दाराः पाचकं । कुलम् ॥ २ ॥ सुकृती पुण्यवान् धन्यः त्रयं भाग्यसंपन्नस्य । “धन्या Digtized by Google