पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सटीकामरकोशल्य [विशेष्य निवर्गः परीक्षकः कारणिको वरदस्तु समर्घकः || हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥ दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ॥ दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८ ॥ तत्परे प्रसितासक्ताविष्टार्थोयुक्त उत्सुकः ॥ प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥ गुणैः प्रतीते तु कृतलक्षणातलक्षणौ ॥ इभ्य आब्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥ अघिभूर्नायको नेता प्रभुः परिवृढोऽधिपः ।। २५४ बरदः समर्थकः द्वे वराणां दातरि । हर्षमाणः विकुर्वाणः प्रमनाः हृष्टमानसः चत्वारि हृष्टचेतसः । “प्रकृष्टं मनो यस्य प्रमनाः ” ॥ ७ ॥ दुर्मनाः विमनाः अन्तर्मना: त्रीणि सान्तानि व्याकुलचेतसः “दुःस्थितं मनोऽस्य दुर्मनाः । विगतं विविधं वा मनो यस्य विमनाः ।" उत्कः उच्छब्दात्स्वार्थे कन् । उन्मना: द्वे उत्कण्ठितस्य । “उद्गतं मनोऽख उन्मना: । " दक्षिणः सरलः उदारः त्रयं सरलस्य | दक्षति वर्धते ऋज्वाशयत्वादक्षिणः । यो दाता चासौ भोक्ता च तत्र सुकल इत्येकम् ॥ ८ ॥ तत्परः प्रसितः आसक्तः त्रीणि तात्पर्ययुक्तस्य । तत्परं उत्तमं यस्य तत्परः । इष्टार्थोयुक्त उत्सुकः द्वे अभिमतार्थे सोद्योगस्य । प्रसितासक्ताविष्टा उयुक्त इति पाठे आविष्टान्तं चतुष्कमासक्ते । "पश्चापि तत्परपर्याया इत्येके ।" प्रतीतः प्रथितः ख्यातः वित्तः विज्ञातः विश्रुतः षट् ख्यातस्य । प्रथते स्म प्रथितः । “प्रथ प्रख्याने " ॥ ९ ॥ कृतलक्षणः आहतलक्षण: "आहितलक्षण इत्यपि" द्वे शौर्यादिभिः ख्याते "लक्षणं नाम्नि चिहे च" इति विश्वः । आहतमभ्यस्तं लक्षणमस्य । “आहतं गुणितेऽपि स्यात्" इति विश्वः । यल्लक्ष्यम् । ककुत्स्थ इत्याहतलक्षणोऽभूदिति । इभ्यः आढ्यः धनी त्रीणि "इभ्यो धनवतीभ्या तु करेण्यां सड़कीतरौ” इति हेमचन्द्रः । बहुधनमस्य धनी । खामी ईश्वरः । "ईश्वरो मन्मथे शम्भौ नाये स्वामिनि वाच्यवत्" इति विश्वमेदिन्यौ । पतिः ईशिता ।। १० । अघिभूः नायकः नेता प्रभुः परिवृढः अधिपः दश प्रभोः । Digitized by Google