पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74-12 २३० सटीकामरकोशस्य नीवी परिपणो मूलधनं लाभोऽधिकं फलम् || पॅरिदान परीवर्तो नैमेयनिमयावपि ॥ ८० ॥ पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् ॥ क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥ विक्रेयं पणितव्यं च पण्यं ऋय्यादयस्त्रिषु || क्लीचे सत्यापनं सत्यकारः सत्याकृतिः स्त्रियाम् ॥ ८२ ॥ विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु || [वैश्यवर्गः ख्यातस्य " ख्यातस्य । सत्यस्मिन्वस्तुप्राप्तिरिति वस्त्रः ॥ ७९ ॥ नीवी "नीविरि- त्यपि " परिपणः मूलधनं क्रयविक्रयादिव्यवहारे यन्मूलघनं तस्य भांडवल इति ख्यातस्य | नीवी स्त्री । परिषण्यते वृद्धयर्थं प्रयुज्यते परिपणः । मूल- धनादधिकं निष्पनं कालान्तरेण स लाभः स्यात् एकं " 'नफा इत्यादि- । परिदानं “प्रतिदानमित्यपि " परीवर्तः "परिवर्त इत्यपि " नैमेय: "वैमेयोऽपि " निमयः “विमय इत्यपि " चत्वारि परिवर्तनस्य "मोबदला इति प्रसिद्धस्य ” । “मेङ् प्रणिदाने " | निमानं नियमः ॥ ८० ॥ उपनिधिः न्यासः द्वे निक्षेपस्य "ठेव, पुरलेले द्रव्य इति प्रसिद्धस्य " स्मृतौ तेषां भेदो नास्ति । तस्य निक्षेपस्य निक्षेप्त्रे अर्पणं प्रतिदानमित्युच्यते । एकम् । प्रतीपं दानं प्रतिदानम् । ऋये “ऋय़विषये ग्राहका गृह्णीयुरिति बुद्धया " यदापणे प्रसारितं वस्तु तत् ऋय्यं एकम् । यत्तष्यमात्रं यत्र कापि वर्तते तत्क्रेयम् ॥ ८१ ॥ एवं विक्रेयं पणितव्यं पण्यं त्रयं विक्रेयस्य वस्तुनः | कय्यादयो वाच्यलिङ्गाः । सत्यापनं सत्यापना । “सत्यापना सत्या- कृतिः” इति त्रिकाण्डे बोपालितात् । सत्यकारः सत्याकृतिः त्रयं अवश्यं मयैत- त्क्रेतव्यमित्यादिरूपस्य सत्यस्य करणे “ सई करणे इति ख्याते | सत्यङ्कारस्तु लोके सच्कार, विसार इत्यादिप्रसिद्धः" । सत्यस्य कृतिः सत्याकृतिः । "सत्यादशपथ " इति डाच् ॥ ८२ || विषणः विक्रय: द्वे "विक इति ख्यातस्य ” । आदश “दशशब्दमभिव्याप्य" एकाधा अष्टादशांता संख्या- शब्दाः संख्येये वर्तमानात्रिषु । यथा एका शाटी । एकः पटः । एकं वस्त्रम् | दश स्त्रियः । दश पुरुषाः । दश कुलानि । “न तु विप्रस्मैक इत्यादि " एवं अष्टादशपर्यंताः उदाहर्तव्याः । तत्र चतुष्पर्यन्ता वाच्यलिङ्गाः । शेषं त्रिषु Dightized by Google