पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! द्वितीयं काण्डम्. उष्ट्रे क्रमेलकमयमहानाः करभः शिशुः ॥ करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥ अजा छागी शुभच्छागबस्तच्छगलका अजे || मेद्रोरभ्रोरणोर्णायुमेषवृष्णय एडके ॥ ७६ ॥ २२९ उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् || चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः ॥ ७७ ॥ वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् || पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥ विक्रेता स्यादिऋयिकः क्रायकक्रयिकौ समौ ॥ वॉणिज्यं तु वणिज्या स्यान्मूल्यं वस्त्रोऽप्यवक्रयः ॥ ७९ ॥ शिशुः करम इत्येकम् । दारवैः काष्ठमयैः पादबन्धनैरुपेताः करभाः शृङ्खलकाः स्युरेकम् ॥ ७५ अजा छागी द्वे "शेळी इति ख्याताया: " । शुभः “तुमः स्तभः स्तुभवेत्यपि " छागः बस्तः छगलकः अजः पञ्चकमजस्य "बोकड इति ख्यातस्य " । मेडूः उरभ्रः उरणः ऊर्णायुः मेषः वृष्णिः एडकः “सप्तकं मेंढरू एडका इति ख्यातस्य" । अविरित्यपि । ऊर्जापुरुदन्तः ॥ ७६ ॥ उष्ट्राणां वृन्दे औष्ट्रकम् । उरभ्राणां वृन्दे औरकम् । अजानां वृन्दे आज- कम् । क्रमादेकैकम् । चक्रीवान् बालेय: रासमः गर्दभः खरः पञ्च गर्दमस्य "गाढव इति ख्यातस्य " ॥ ७७ ॥ वैदेहकः सार्थवाहः नैगमः निगमः । “निगमो वाणिजे पुर्याम्" इति विश्वः । वाणिजः वणिक पण्याजीव: आप- णिकः क्रयविक्रयिकः अष्टौ क्रयविक्रयाभ्यां वर्तमानस्य वाणी इति ख्यातस्य | "वणिक् स्त्रियां वणिज्यायां पुमान्वाणिजकेऽपि च " इति विश्वः । वणिजौ ॥ ७८ ॥ विक्रेता विक्रयिकः द्वे वस्त्रपात्रादि दत्वा तन्मूल्यं गृह्णतः “विकणारा इति ख्यातस्य" । विक्रयेण जीवति विक्रयिकः " । क्रायकः ऋयिकः द्वे मूल्येन वस्त्रादि गृहतः "विकत घेणारा इति प्रसिद्धस्य । क्रयेण जीवति ऋयिकः " । वाणिज्यं वणिज्यमपि । “दूतवणिग्भ्यां च " इति यः । बणिज्या द्वे वणिजा कर्मणि "बाणीपणा इति ख्याते । वणिजां कर्म बाणिज्यम्” । मूल्यं वस्त्रः अवक्रयः त्रयं विक्रेयवस्तूनां मूल्यस्य "मोल इति Diglized by Google