पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70-74 २२८ सटीकामरकोशय चिरप्रसूता बष्कयणी घेनुः स्यान्नवसूतिका || सुत्रता सुखसंदोया पीनोभी पीवरस्तनी ॥ ७९ ॥ [ वैश्यवर्ग: द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता || समांसमीना सा यैव प्रतिवर्ष प्रसूयते ॥ ७२ ॥ ऊघस्तु क्लीबमापीनं सभो शिवककीलको || न पुंसि द्राम संदानं पशुरज्जुस्तु दॉमनी ॥ ७३ ॥ वैशाखमन्थमन्थानमन्थानो मन्थदण्डके || कुठेरो दण्डविष्कम्भो मन्थनी गर्गेरी समे ॥ ७४ ॥ सोऽस्त्यस्याः । मष्कयस्त्वेकहायनो वत्स इति शाकटायन: " द्वे दीर्घकालेन प्रसूताया: । धेनुः नवसूतिका द्वे नूतनप्रसूताया: । सुत्रता सुखसंदोशा " सुखसंतुझेत्यपि " द्वे सुशीलाया: "निसकीन इति ख्याताया: " } पीनोधी पीवरस्तनी द्वे स्थूलस्तन्याः ॥ ७९ ॥ द्रोणक्षीरा द्रोणदुग्धा द्वे द्रोण- परिमितदुग्धदाभ्याम् । बन्धकं आघिस्तत्र स्थिता ऋणशुद्धिपर्यन्तं उत्तमर्मगृहे दोहनार्थ स्थापितेति यावत् सा धेनुष्या एकम् । “बन्धकं स्याद्विनिमयः" इति विश्वः । बन्धकं आधिर्नाम गाहाण इति लौकिकभाषायाम् । या वर्षे वर्षे प्रयते सा समांसमीनेत्येकं पश्चाक्षरम् ॥ ७२ ॥ ऊषः आपीनं द्वे गोस्तनस्थ “कांस इति ख्यातस्य ।” ऊघः सान्तं लीयम् । शिवकः कीलकः द्वे गवां बन्धनार्थ निखातस्य काष्ठस्य “मेढ इति ख्यातस्य " | दाम संदानं द्वे बन्धनरजो: “दाबें इति ख्याताया: ।” संदीयते संदानम् । दाम नान्तम् । त्रियां तु दामा दामानौ । पशुरञ्जः दामनी "बन्धनीत्यापि पाठः " द्वे यस्यामेकस्यां बहुग्रन्थियुतायां बहवो वृषा बध्यन्ते तस्या रजोः “दावण इति ख्याताया: । " चरणपाशस्थेत्येके || ७३ || बैशाखः मन्थः मन्थानः मन्थाः मन्थदण्डकः पश्च मन्थनदण्डस्य “ रवी इति ख्यातस्य । " मन्थाः मन्थानौ । कुठरः । “कुटर इति पाठे तु कुट कौटिल्ये बाहुलकादर: । " दण्डविष्कम्भः द्वे यत्र मन्थदण्डो बध्यते तस्य स्तम्भस्य " घुसळखांब इति ख्यातस्य ।" मन्थनी गर्गरी द्वे मध्यमानद धिपात्रस्य । मन्थतेऽस्यां मन्थनी। कल- शीत्यपि पाठः ॥ ७४ ॥ उष्ट्रः क्रमेलकः मयः महाङ्गः चत्वारि उस्य उष्ट्रस Digitized.by Google बध्यतेऽनेन