पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44-53 . द्वितीयं काण्डम् १२३ " " (“प्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः ” ॥ ) ( १ ) ग्रव्यं त्रिषु गवां सर्व गोविद गोमयमस्त्रियाम् ।। ५० ।। तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयः समम् || पयस्यमाज्यदध्यादि द्रप्स दघि घनेतरत् ॥ ५१ ॥ घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्धृतम् ॥ तत्तु हैयङ्गवीनं यत् ह्योगोदोहोद्भवं घृतम् ।। ५२ || दण्डाहतं कालशेयमरिष्टमपि गोरसः ।। तक्रं युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥ इति ख्यातस्य | " यवागूर्वान्ता । “प्रक्षणेत्यर्घे क्षेपकम् । अक्षणं अभ्य- अनं द्वे तैलस्य | तिलमिश्र ओदनः कसरः स्यादेकम्" । गवां सर्व गोरिदं गवि भवं गोविकार इत्याद्यर्थेषु यत्क्षीरादि तद्गव्यं स्यात् एकम् । " त्रिषुः । दघिदुग्धादेः” । गोविद् गोमयं द्वे गो: पुरीषे "शेण इति ख्याते ” । गोविट् वान्ता सी ॥ ५० ॥ तद्गोमर्यं शुष्कं करीषं स्यात् एकं "गोवरी इति ख्यातस्य " । दुग्धं क्षीरं पयः त्रीणि “दूध इति ख्यातस्य " | पयः सान्तम् पयसो विकारो यदाज्यदध्यादि तत्पयस्यम् । “आदिना तक्रं नवनीतम् ” । यद्धनादितरत् ऋथं दघि तत् द्रप्सं स्यात् 1 "द्रप्स्यमिति भरतमालायाम् द्रप्सः पुंस्यपि | एकं पातळ दहीं इति प्रसिद्धस्य " ॥ ५१ ॥ घृतं आज्ये हवि: सर्पिः चत्वारि घृतस्य । हबिषी सर्पिषी “हविः सर्पिषि होतव्ये " इति हैमः । अञ्जनीयमाज्यम् । आपूर्वादः संज्ञायां क्यप् । नवनीतं नवो- वृतं द्वे "लोणी इति ख्यातस्य " | मथिताइनो नवं तत्कालमुद्धृतं योगोदो- होद्भवं पूर्वदिनप्राप्तगोक्षीरघृतं यक्षीनं स्यात् । एक “ एकरात्रपर्युषिताइभ उत्पन्नस्य घृ॒तस्य" । सः पूर्वदिने यो गोदोहस्तसादुद्भवो यस्य तत् । "हेय- गवीनं संज्ञायाम्" । ह्यो गोदोहस्स हियङ्गुरादेशः विकारार्थे खञ् च निपा- त्यते ॥ ५२ ॥ दण्डाहतं कालशेयं अरिष्टम् । “अरिष्टमंशुमे तत्रे सूतिकागार आसपे । शुभे मरणचिहेच " इति विश्वः । गोरसः चत्वारि दण्डमथितस्य गोर समाजस्य । तद्विशेषमाह । पादाम्बु चतुर्थाशमुदकं यत्र तहण्डाहतं तऋमित्यु - यते । अर्धाम्बु अर्धदकं यत्र गोरसे तदुदवित् । तान्तम् | उदकेन श्वयति वर्द्धते इति विग्रहः । “दुओधि गतिवृद्धचोः ।” निर्जलं जलरहितं दघिमन्थन - १ इदमधे तालपत्र पुस्तकेऽपि नास्ति 1. · 2 Digitized by Google