पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40-40 २२२ सटीकामरकोशल्य [ वैश्यवर्गः आपक्कं पौलिरभ्यूषो लाजाः पुंभूनि चाक्षताः ॥ पृथुकः स्थाञ्चिपिटको धाना भृष्टयवे स्त्रियः ॥ ४७॥ पूपोऽप्रूपः पिष्टकः स्यात्करम्भो दघिसक्तवः ॥ भिःसा स्त्री भक्तमन्धोऽनमोदनोऽस्त्री सदीदिविः ॥ ४८ ॥ भिःसटा दग्धिका सर्वरसा मण्डमस्त्रियाम् || मासराचामनिसावा मण्डे भक्तसमुद्भवे ॥ ४९ ।। यवागूरुष्णिका श्राणा विलेपी तरला च सा ॥. अभ्यूषः पुष्पादिना वाऽधिवास्यते वासितमिति स्वामी । “ धूपितं वासितं विदुः" इति सुनिः ॥ ४६ ।। आपकम् ईषत् पकम् | आद् ईषदर्येऽत्र । पौलिः “ अभ्युषः अभ्योषथापि” । त्रयं “अर्द्धस्विभयवादेर्घृतादिना भर्जितयवा- देर्वा घृतपकाभस्य पोळी इत्यादिप्रसिद्धस्य" । लाजाः भर्जितवीहयः । पुंभूनि पुंसि बहुत्वे च । एवमक्षता अपि पुंभूझि | अक्षता यवा इति पुरा- णम् । एकैकस्याभिधानं पुंबहुत्वविधानार्थम् । “लाजः स्यादार्द्रतण्डुले । नपुंसकमुशीरेऽथ स्त्रियां पुंभूनि चाक्षताः" इति मेदिनी । “अक्षतं न द्वयोः पण्डे लाजेषु त्रिष्यहिंसिते । यवेऽपि कचित्" इति मेदिनी | पृथुकः चिपिटकः द्वे आर्द्रभृष्टव्रीहितण्डलस्य “पोहे इति प्रसिद्धस्य" । धाना इत्येकं भृष्टयवे बर्तते । नित्यं स्त्रियां बहुत्वे च ॥ ४७ ॥ पूपः अपूपः पिष्टकः त्रीणि तण्डुल पिष्टरचितस्य भक्ष्यभेदस्य “वडा, घारगा इत्यादिख्यातस्य" ।“अपूपः पिष्टपूपः स्यात्” इति मुनिः । यल्लक्ष्यम् । “चन्द्रांशुनिर्मला: पूपाः शालितण्डुलनि- मिताः" इति । दधियुक्ताः सक्तवो दघिसक्तवः करम्भः स्यात् । करम्ब इत्यपि । केन जलेन रम्बते । रबि शब्दे । एकम् । सक्तवस्तु धानाचूर्णम् ते च प्रायेण पुंभूनि । मिःसा भक्तं अन्ध: अनं ओदनः दीदिविः षट्कम- कास्य । अन्धः सान्तम् । ओदनोऽस्त्री | दीदिविः पुंसि ॥ ४८ ॥ भिःसटा दग्धिका द्वे दग्धाभस्व "करप इति ख्यातस्य " । सर्वेषां रसानां द्रवद्रः व्याणां अग्रं अग्रिमो द्रवः मण्डः स्यात् । “क्लीबे भण्डम् | एक निवळी इति ख्यातस्य " । मासर: आचाम: निलाव: "विस्राव इति मुकुट: " त्रीणि भक्तसमुद्भवे मण्डे नीस " पेज" इति ख्याते ॥ ४९ ॥ यवागूः उष्णिका श्राणा विलेपी तरला पश्च द्रवदोदनस्य “आटवल, पातळ भात कोरी Digitized by Google +. .