पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९] द्वितीयं काण्डम्. पुंसि मेधिः खलेदारु न्यस्तं यत्पशुबन्धने || आशुव्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥ तोक्मस्तु तत्र हरिते कलायस्तु संतीनकः || हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः ॥ १६ ॥ मङ्गल्यको मसूरोऽथ मॅकुष्टकमयुष्ठकौ ॥ वनमुद्गे सर्षपे तु दौ तन्तुभकदम्बकौ ॥ १७ ॥ २१३ . 14-17 इति ख्यातस्य ॥ १४ ॥ पशुबन्धने वृषादिबन्धननिमित्ते यत्काष्ठं न्यस्तं निखातं तत्र मेधिः “मेथिरित्यपि " खलेदारु इति द्वे "मेढ इति ख्यातस्य" । खलेदार्विति "हलदन्तात्" इति सप्तम्या अलुक् । यद्धा खले धान्यमर्दनस्थले यद्दारु इति पृथक्पदं वा । आशु: ग्रीहिः पाटल: पाटलिरित्यपि । पाटलो वर्णोऽस्यास्तीति त्र्यं व्रीहे: । “पाटलो व्रीहिपाटल उच्यते" इति नामद्वय- मिति सुभूतिः । तत्र आशु क्लीने पुंस्यपि । “आशुस्तु व्रीहिशीघ्रयोः” इति हेमचन्द्रः । आशुव्रीहिरित्येकं पदमिति सुभूतिः । “अशु व्रीहौ पाटलो ना श्वेत- रक्तेऽन्यलिङ्गवान् ” इति रुद्रोऽपि । व्रीह्यादिः पुंसि । धान्यमात्रेऽपि व्रीहिं वक्ष्यन्ति । शितशूकः यवः द्वे जब इति ख्यातस्स “शितशूको द्वितालव्यः । मध्यतालव्योऽषि” ॥ १५ ॥ तत्र यषे हरिसे हरिद्वर्णे तोक्म इत्येकम् “निःशू- कयवस्य" । कलायः सतीनकः । “सातीनक इति माधवः । प्रज्ञाद्यन् । सतीलक" इति मेदिनी । हरेणुः रेणुकः चत्वारि "वाटाणा इति ख्यातल" कोरदूषः कोद्रवः “काद्रव इत्यपि " द्वे हरीक इति ख्यातस्य ॥ १६ ॥ भङ्ग- ल्यकः मसूरः । “मसुरा मसूरा | वेश्यायां त्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । ममुरमसुरौ पुंसि द्वावेतावपि चैतयोः" इति रमसः । “मसूरा मसुरा वा ना वे- श्याव्रीहिप्रभेदयोः” इति मेदिनी । द्वे मसूर इति ख्यातस्य । मकुष्टक: “मकू - टक: मुकुष्टकः । विश्वमेदिन्योस्तु सुकुष्ठो ग्रीहिभेदे नेति टवर्गद्वितीयान्तः”। मयुष्ठकः भयष्ठकः । मपष्ठकः । मपष्ठोऽपि भपुष्ठकः मनुष्ठोऽप्यन्यत्र " | वन- मुद्र: "श्रीणि मठ, मटकी इति ख्यातस्य" । सर्षपः तन्तुमः तुन्तुभोऽपि ” । कदम्बकः श्रयं सांसव "शिरस" इति ख्यातस्य । “सर्षपः स्यात्सरिषपः" इति त्रिकाण्डशेषः ।। १७ ।। एष सर्षपो धवलः शुभ्रषेत्सिद्धार्थ इत्येकम् | गोधूमः १ अशुनामा व्रीहिः पाटल उच्यते इति नामद्वयम् इति सुभूतिः - इति रामाश्रभ्याम् ।। Digitized by Google +