पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11-14 २१२ सटीकामरकोशस्य लोष्टशनि लेष्टवः पुंसि कोर्टिशो लोटभेदनः ॥ प्राजनं तोदनं तोत्रं खनित्रमवदारणे ॥ १२ ॥ दात्रं लवित्रमाबन्धो योत्रं योक्तमथो फलम् || निरीश कुंटकं फालः कृषको लाङ्गलं हॅलम् ॥ १३ ॥ गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः ॥ ईषाँ लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः ॥ १४ ॥ [ वैश्यवर्ग: 64 डिफळ इति रूपातस्य”। “लोष्टं पुंस्यपि लेषुः षण्ढेऽपि लोष्टः स्यात्” इति बोपा- लितः । कोटिशः कोटीशः इत्यपि लोष्टभेदनः द्वे लोष्टभञ्जनमुद्गरस्य “कुळव डिफळा इति ख्यातस्य" । प्राजनं तोदनं तोत्रं त्रीणि वृषादेस्ताडनोपयोगिन- स्तोत्रस्य "आसूड, चाबूक इति ख्यातस्य" । तुद्यतेऽनेन तोत्रम् | यल्ल - क्ष्यम् । तोत्रवेत्रैकपाणये । खनित्र अवदारणं द्वे कुद्दालादे: “ कुदळ इति ख्यातस्य " ॥ १२ ॥ दात्रं लवित्रं द्वे । लुनाति छिनति अनेन लवित्रं “इळा कोयता " इति प्रसिद्धम् । आनन्धः योत्रं योक्तं त्रीणि युगबन्धनो- पयोगिन्यां रजौ "जुंपणी जोर्ते इति ख्यातायाम् " । फलं निरीशं “निरी- षमिति " कुटकम् 1 “दीर्घादिरिति मुकुट: " फाल: कृषक: “कृषिकः । कृषिका कृषिको फालकृषकाविति रुद्रास्त्रियामपि " पत्र लाङ्गलस्याधः स्थिते काष्ठे यस्याग्रं लोहेन प्रबध्यते । “आद्यत्रयं यत्र काष्ठे फालो निब- ध्यते तस्य । अन्त्यद्वयं फालस्येत्यपि मतम्" । फलति विशीर्यते भूमिरनेन फालः । लाङ्गलं हलं हालः । “हालः फालवहः सीता" इति विक्रमादित्यः । “हालो हले पुमान् हाला मदिरायां च योषिति" इति मेदिनी ॥ १३ ॥ गोदारणं सीर: "शीर इत्यपि " चत्वारि हलस्य | शम्या युगकीलकः द्वे युगस्य कीलके खीळ इति ख्याते | शम्यते वृषादिरनया शम्या | लाङ्गलस्य दण्ड ईषा स्यात् । “ईशा ” । “प्रञ्जुशंकरयोरीशः स्त्रियां लाङ्गलदण्डके" इति तालव्यान्ते रुद्ररभसौ । “ईश: स्वामिनि रुद्रे च स्यादीशा हलदण्डके" इति शान्तेषु विश्वः | एकं इसाड इति ख्यातस्य । लाङ्गलपद्धतिः, हलरचितारेखा सीता स्यात् । शीता । “शीता नभःसरिति लाङ्गलपद्धतौ च शीता दशा- ननरियो: सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतो- लसे च बहुवाररतौ च हः" इति तालव्यादौ धरणिः । एकं नांगराचें तास Digitized by Google