पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं काण्डम्. ("शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम् ") (१) बीजाकृतं तृप्तकृष्टे सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥ त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ॥ द्विगुणाकृते तु सर्व पूर्व शम्बाकृतमपीह ॥ ९ ॥ द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः ॥ खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥ पुन्नपुंसकयोर्वत्रः केदारः क्षेत्रमस्य तु || कैदारकं स्यात्कैदार्य क्षेत्रं कैदारिकं गणे ॥ ११ ॥ ९]. 7-11 । उसं पश्चात्कृष्टं क्षेत्रमुतकृष्टं तत्र बीजाकृतमित्येकम् । बीजेन सह कृतं कृष्टं बीजाकृतम् । “कुञो द्वितीया " इति डाचू | सीत्यं कृष्टं हल्यं त्रीणि कृष्टमात्रस्य | सीतया हललेखया समितं सीत्यम् । “शीत्यमित्यपि " । हलेन कृष्टं हस्यम् || ८ || त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यं चत्वारि वारत्रयकृष्टस्य । त्रिगुणं “त्रिवारं" कृतं कृष्टं क्षेत्रं त्रिगुणाकृतम् । “संख्या: यात्र" इति डाच् । तस्मिन् त्रिगुणाकृते इत्यर्थः । द्विगुणाकृतेऽपि सर्वे पूर्व योज्यम् । यथा । द्विगुणाकृतं द्वितीयाकृतं द्विहल्यं द्विसीयं चत्वारि वारद्वय- कृष्टस्य | इह द्विःकृष्टे शम्बाकृतमित्यपि नाम । “शम्बशब्दो द्वितीयकर्षणे वर्तते इति रामाश्रमः । सिद्धान्तकौमुद्यां तु शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं प्रतिलोमं कर्षतीत्यर्थः । सम्बाकृतमिति दन्त्यादिरपि ” । एवं पञ्च ।। ९ ।। उप्यतेऽस्मिमिति वापः क्षेत्रम् | द्रोणादिपरिमितधान्यस्य वापादौ द्रौणिकादयः स्युः । यथा द्रोणस्य वापः क्षेत्रं द्रौणिकः । आढकस्य वापर आढकिक: । आदिशब्दात्प्रस्थस्य वापः । प्रास्थिकः "कौडविकः " इत्यपि । बापादावित्यादिशब्दात्पचादिग्रहः । द्रोणस्य पचो द्रौणिकः कटाहः । खारीवापः खारीपरिमितं यत्रोप्यते स खारीकः एकम् | उत्तमर्णादयः खारी- कान्ताः त्रिलिङ्ग्याम् | वाच्यलिङ्गत्वात् ॥ १० ॥ वप्रः केदारः क्षेत्रं त्रीणि क्षेत्रस्य " शेत इति ख्यातस्य " | "वप्रः प्राकाररोघंसोः । क्षेत्रे ताते चये रेणी " इति हैमः । अस्य क्षेत्रस्य गणे समूहे कैदारक कैदायें “केदार " क्षेत्र कैदारिक इति चत्वारि ॥ ११ ॥ लोष्ट लेटुः द्वे मृत्तिकाखण्डस्य । “ढेकूळ, १. इदसध: तालपत्रपुस्तकेऽपि नास्ति || " Diglized by Google