पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय काण्डम्. अहंपूर्वमहंपूर्वमित्यहंपूर्विका स्त्रियाम् ।। १०० ।। आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः ।। १०१ ।। द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ॥ शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥ १०२ ॥ वीरपानं तु यत्पानं वृत्ते भाविनि वा रणे ॥ युद्धमायोघनं जन्यं प्रधनं प्रविदारणम् || १०३ || मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् || अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ।। संमहाराभिसंपातकलिसंस्फोटसंयुगाः । [[ ]] 1 २०५ 100-104 एकम् । स्त्रियाम् ।। १०० || दर्यादात्मविषये या संभावना सामर्थ्याविष्करण सा आदी पुरुषिकेत्युच्यते । अहंपुरुष इत्यईन्कारवानीपुरुषस्ताव आदो- पुरुषिका एकम् । यः परस्परमहं शक्तोऽहं शक्त इत्यहंकारः सा अहमहमिका स्यात् । अहमहंशब्दोऽस्त्यत्र | वीप्सायां द्विवचनम् | एकं षडक्षरम् ।। १०१ ॥ द्रविणं तरः सहः वर्ल शौर्य स्याम शुष्मं शक्तिः पराक्रमः आण: दश परा- क्रमस्य | तरसी । सहसी । स्थामनी । शुष्ममदन्तम् | सह इत्यदन्तोऽपि । "सहोऽसियां चले न स्त्री " इति रभसः । “सहो बले न त्रियां स्यात्" इति मे- दिनी च । विक्रमः अतिशक्तिता द्वे अतितराक्रमस्य ।। १०२ ।। रणे वृत्ते सति तच्छ्रमशान्त्यर्थ अथवा भाविनि भविष्यति रणे तदुत्साहवृद्ध्यर्थे यद्वीराणां मद्यपानं तदीरपानं स्यात् । वीरपाणमित्यपि। “वा भावकरणयोः” इति णत्वम् । युद्धं आयोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ मृधं आस्कन्दनं संख्यं समीकं सांपरायिकं “संपरायिकं " कन् । समरः अनीकः रणः कलह विग्रहः ।। १०४ ।। संग्रहारः अभिसंपात: कलिःसंस्फोट: “संस्फेटः ” संयुग अभ्यामर्द : “ अभिमर्द इत्यपि " । “अमिमर्दस्तु पुंसि स्यादवमर्दे संपराये च" इति मेदिनी । समाघातः संग्रामः अभ्यागमः आइवः ॥ १०५॥ समुदायः संग्रत् समितिः आजिः समित् युत् एकत्रिंशयुद्धस्य | संख्यं व्यनुस्खारम् । Diglized by Google