पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

405-410 [ क्षत्रियवर्गः अभ्यॉमर्दसमाघातसंग्रामाभ्यागमाहवाः ।। १०५ ॥ समुदायः स्त्रियः संयत्समित्याजिसमियुधः ॥ नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले || १०६ । क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा || ऋन्दनं योघसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥ विस्फारो धनुषः स्वानः पटहाडम्बरौ समौ ॥ प्रसभं तु बलात्कारो हटोऽथ स्खलितं छलम् ॥ १०८ ॥ अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम् ॥ मूर्छा तु कश्मलं मोहोऽयवमर्दस्तु पीडनम् ॥ १०९ ॥ अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः ॥ वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ।। २०६ सटीकामरकोशल्य समरादित्रयं अनियाम् । संयतौ समितौ । युधौ । नियुद्धं बाहुयुद्धं द्वे बाहुयुद्धस्य | तुमुलं इत्येकं रणस्य संकुले परस्परसंबाधे वर्तते ॥ १०६ ॥ क्ष्वेडा सिंहनाद: द्वे वीराणां सिंहनादतुल्यनादविशेषस्य । क्ष्वेडा टाबन्ता । करिणां घटना युद्धे संघट्टनं घटा स्यात् । योधानां सैराव: आक्रोशपू- र्षक: शब्द: क्रन्दनं स्यात् अन्योन्यस्पर्धया योधानामाहानस्य एकम् । करिणां गर्जितं बृंहितं स्यात् एकम् ।। १०७ ॥ धनुषः शब्दो विस्फारः एकम् । पटहः आडम्बरः द्वे संग्रामध्वनेः । प्रसभं बलात्कारः हठः श्रीणि बलात्कारस्य । “प्रगता सभा विचारोऽस्मात्प्रसभम् । बलात्करणं बला- त्कार: " स्खलित छलं द्वे युद्धमर्यादायाचलनस्य ॥ १०८ ॥ अजन्यं उत्पातः उपसर्गः त्रयमुत्पातस्य “शुभाशुभसूचकस्य । न जने साधु अज- न्यम्” । मूर्च्छा कश्मलं मोह: त्रीणि मूर्छाया: । अवमर्द: पीडनं द्वे सस्या- दिसंपन्नस्य देशस्य यत्परचक्रेण पीडनं तत्र ॥ १०९ ॥ अभ्यषस्कन्दनं अभ्या- सादनं द्वे छलादाक्रमणस्य धाड इति ख्यातस्य । छापा इत्यपि । विजयः जयः द्वे शत्रुपराङ्मुखीकरणेन लब्धस्योत्कर्षस्य । वैरशुद्धिः प्रतीकारः वैरनि- र्यातनं त्रीणि वैरप्रतीकारस्य ॥ ११० ॥ प्रद्रावः उद्राव: संद्राव: संदावः विद्रवः Digitized by Google