पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

96-99 म [ क्षत्रियवर्गः वैतालिका बोधकराचाँक्रिका घाटिकाऽर्थकाः ॥ स्युर्मागघास्तु मगंधा बन्दिनः स्तुतिपाठकाः ॥ ९७ ॥ संशतकास्तु समयात्संग्रामादनिवर्तिनः ॥ रेणुर्द्धयोः स्त्रियां धूलिंः पांसुर्ना न द्वयो रजः ॥ १८ ॥ चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले ॥ पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥ सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा || बोधकरा: द्वे ये नृपान्स्तुतिपाठेन प्रातर्बोधयन्ति तेषु । "विविधेन तालेन शब्देन चरन्ति ते वैतालिकाः । " चाफ्रिकाः घाण्टिका: द्वे बन्दिविशेषेषु । घण्टाघातेन ये शंसंति ते षाष्टिकाः । यदाहुः । प्रवोधसमये । घण्टाशिल्पास्तु घाटिका इति । चक्रिका घटिकार्थका इति कचित्पाठः । तत्र चक्रमस्ति वाद्यत्वेन यस्य । ठन् । घटीं कायन्ति “कै शब्दे" द्वे घटिकावादकस्य । मागधा: मगधाः “मधुका इति मुकुटः । मधु मधुरं कायन्ति इति विग्रहः ।” द्वे राजाग्रतो वंशक्रमस्य स्तावकानाम् । यदाहुः । “भागधाः सूतवंशजाः” इति । बन्दिनः स्तुतिपाठकाः द्वे राजादिस्तुतिपाठकेषु “भाट इति ख्यातेषु " वन्दन्ते स्तुवते तच्छीला बन्दिनः । यदुक्तम् । “वंदिनस्त्वमलप्रशाः प्रस्तावसदृशो- क्तयः" इति । चत्वार एकार्था इत्येके || ९७ || समयाच्छपथाद्ये संग्रामाद- निवर्तिनोऽपराङ्मुखास्ते संशतकाः स्युरेकम् । रेणुः धूलिः “धूली” पांसुः “पांशुः” रजः चत्वारि धूल्या: धूळ इति ख्याताया: । “रेजुः स्त्रीपुं- सयोः ।” पांसुः पुंसि । रजः क्लीने || ९८ ।। चूर्ण क्षोदः द्वे पिष्टस्य रजसः । षडपि रजस इत्येके । चूर्ण पुंलिङ्गोऽपि । “चूर्णो धूलो क्षारमेदे चूर्णानि बासयुक्तिषु” इति मेदिनी । “चूर्णानि वासयोगाः स्युचूर्णो धूलिः सशर्करः" इति शाश्वतत्र । समुत्पिञ्जः पिञ्जलः द्वे अत्यन्तमाकुले सैन्यादौ पताका वैजयन्ती केतनं ध्वजं चत्वारि पताकायाः । केतनादि द्वयं पताकादण्डस्ये- त्येके । “ पुंसि ध्वजः” ।। ९९ ।। या युद्धभूमिः खण्डितैर्गजादिभिरतिभयदा सा बीराशंसनं स्यात् " एकम् | वीरा आशंस्यतेऽत्र वीराशंसनम् । “ आङ: शसि इच्छायाम् " । अहं पूर्वमहं पूर्व अहमने मवामीत्याग्रहपुरःसरं पूर्व युद्धं अहंपूर्विका स्यात् । सुप् सुपेति समासे स्वार्थे कन् । स्त्रियां टापू । Diglized by Google