पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

55-210 १९४ सटीकामरकोशस्य [ क्षत्रियवर्गः चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् || पिण्डिका नाभिरक्षाप्रकीलके तु योरणिः ॥ ५६ ॥ रथगुतिर्वरूयो ना कूबरस्तु युगन्धरः || अनुकर्षो दार्वधःस्थं प्रासङ्गो ना युगायुगः ॥ ५७ ।। सर्व स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् || परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ।। ५८ ॥ आँधोरणा हस्तिपका हस्त्यारोहा निषादिनः || नियन्ता प्राजिता यन्ता सूतः क्षत्ता व सारथिः ।। ५९ ।। काष्ठस्या चक्रधारणार्थं यत्कीलकमारोप्यते तत्र अणिरित्येकम् । स्त्रीपुं- सयोः । “अणिराणिषदक्षाग्रकीला श्रीसीमसु द्वयोः" इति मेदिनी ॥ ५६ ॥ रथगुप्तिः वरूथः द्वे शस्त्रादिभ्यः परिरक्षणार्थ रथस्य लोहादिमयं यदावरणं क्रियते तस्य | ना पुमान् । “वियते रथोऽनेन वरूथ: " । कूबर: युगन्धरः द्वे यत्र रथस्याश्वा बध्यन्ते तस्य काष्ठस्य “दांडी इति ख्यातस्य । युगकाष्ठबन्ध- नस्थानस्यापि च । युगं वोडुर्षन्धनकाष्ठं धारयतीति युगन्धरः ” । रथावःस्थं काष्टं अनुकर्षः । अनुकर्षति नान्तोऽप्ययम् । “अनुकर्षा नाऽवतलदारु” इति बोपालितात् । एकं रथस्याघःस्थलमागदारुणः । युगेन अतति युगाद्रथा- यादिः तस्य युगो युगायुगः प्रासङ्ग इति स्यात् । ना पुमान् । काकाक्षिवत् युगायुगइत्यस्यापि विशेषणम् । अयमेव युगशब्दः पुंसि न तु युग्मादिवाचीति प्रदर्शनार्थम् | युगान्तरमिति पाठे शकटसन्धियुगादन्यो युगः वृषादीनां स्कन्धे आसजमानः स प्रासङ्ग इत्यर्थः । एकं “जूं जोकड इति ख्यातस्य " | युगं द्वितीय प्रासङ्ग इति कात्यः ॥ ५७ ॥ सर्वे हस्त्यश्वादिवाहनं यानादिशब्दवा- च्यम् । यानं युग्यं पत्रं धोरणं चत्वारि यत्परम्परावाहनं नरादिवोदृपरम्परया बाह्य शिविकादि तद्वैनीतकं स्यात् । विनीतानां शिक्षितानामिदम् । “पुंसि वैनीतकः । विनीतकमित्यपि " ॥५८॥ आधोरणाः “अधोरणाः इत्यपि " हस्ति- षकाः हस्त्यारोहाः निषादिनः चत्वारि हस्तिपकेषु माहात इति ख्यातेषु । द्वे द्वे भिभार्ये इत्येके । तदा आद्ये महामात्रस्य । परे गजारोहस्य | नियन्ता प्राजिता यन्ता सुतः क्षता सारथिः ॥ ५९ ॥ सव्येष्ठः दक्षिणस्थः एता अष्टौ संज्ञा आख्या: “रथइडम्बिनः रथं कुटुम्बयितुं शीलमस्य यद्वा रथ एव कुटुम्ब यस्य Diglized by Google