पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

16--13 सटीकामरकोशख स्यात्संदेशहरो दूतो दूँत्यं तद्भावकर्मणी ॥ १६ ॥ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि || स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १७ ॥ राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च || सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥ षडणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः ॥ १८४ [ क्षत्रियवर्ग: । इरः । तस्य दूतस्य भावे कर्मणि च दूत्यमित्येकम् । “ दौत्यमपि । तद्भा- गकर्मणी इति त्वपपाठः " । दूतस्य भागकर्मणी इति यतश्छान्दसत्वात् ||१६|| अध्वनीनः अध्वगः अध्वन्यः पान्थः पथिकः पश्च पान्थस्य । “त्रियां तु पाम्था पथिकी । पथष्कन् विश्वात् ङीष् " । स्वामी राजा । अमात्यो मन्त्री | सुहन्मित्रम् | कोशो धनागारम् | राष्ट्र जनपदवर्तिभूमिः | दुर्गे दुर्ग- मस्थानम् " पर्वतादि " । बलं सेना ॥ १७ ॥ एतानि सम्र राज्याङ्गानि स्युः । राज्ञः कर्म राज्यं तस्याङ्गानि आरम्भकाणि । “खाम्ममात्य राष्ट्र च दुर्गे कोशो बलं सुहृत् । परस्परोपकारीद सप्ताङ्गं राज्यमुच्यते” इति कामन्द- कीगे । एतान्येव प्रकृतिशब्दवाच्यानि स्युः द्वे । प्रकृष्टं कुर्वन्ति राज्यं प्रक- तयः । पौराणां श्रेणयोऽपि प्रकृतयः स्युः । "पौरश्रेणिभिः सहाहाङ्गमपि राज्यमित्यर्थः” । यत्कात्यः । “अमात्यश्च तथा पौराः सद्भिः प्रकृतयः स्मृताः" इति । एकम् । शिल्पोपजीविनां परित्र श्रेणि: । मुख्यः सजातीयसङ्ग्रहः श्रेणिरित्यन्ये । सन्धिः संधानं स्वर्णादिना शत्रूणां प्रीत्युत्पादनमिति । संधि- शब्द: पुमान् । परमण्डले दाइलुण्ठनादिग्रहणं विग्रहः । शत्रुं प्रति विजिगी- बोर्गमनं यानम् । शक्तिप्रतिबन्धे सति कालं प्रतीयादिति दुर्गादिकं निर्माण तत्रावस्थानमासनम् | बलिना सह संघि: अबलेन सह विग्रहः इति प्रकार- द्वयं द्वैघम् | अरिणा पीढ्यमानस्य बलबद्भूपालाद्याश्रयणं आश्रयः । एतेषां भेदास्तु कामन्दकीमादौ द्रष्टव्याः ॥ १८ ॥ एते संध्यादयः षद् गुणाः स्युः एकम् | प्रभावोत्साहमन्त्रजास्तिलः शतमः स्युः एकम् । तत्र कोशदण्डवं तेजः प्रभावशक्तिः । विक्रमादिनोअतिरुत्साहशक्तिः । संधिविग्रहादीनां मोव यथावस्थापनं मत्रशक्तिः । पञ्चाङ्गमत्रो मत्रशक्तिरित्यन्ये । क्षयः सानं वृद्धि- रिति त्रयं नीतिवेदिनां त्रिवर्मः स्यात् । नीविचासोकविवर्गः इत्यर्थः एक । Digitized by Google