पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सटीकामरकोशस्य [ क्षत्रियवर्ग: अन्तःपुरे त्वधिकृतः स्यादन्तर्वेशिको जनः ॥ सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ ८ ॥ १८२ पॅण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः ।। विषयानन्तरो राजा शत्रुमित्रमतः परम् ।। ९ ।। उदासीनः परतरः पाणिग्राहस्तु पृष्ठतः ॥ रिपो वैरिसपत्नारिद्धिषद्वेषणदुर्हदः ॥ १० ॥ द्विडिपक्षाहितामित्रदस्युशात्रवशत्रवः ॥ अभिघाँतिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥ 64 अन्तः पुरेऽधिकृतो जनः अन्तर्वेशिक: स्यात् एकम् । “अन्तर्वेशे नियुक्तः अन्त- वैशिकः" । सौविदल्ला: कबुकिनः स्थापत्याः सौविदाः चत्वारि राजस- मिधौ " राक्षां रूपगारे वा" वेत्रधराः कबुकिनः पुरुषास्तिष्ठन्ति तेषान् । ' सुष्टु विदं विद्वांसमपि लान्ति वशं कुर्वन्ति सुविदल्लास्तासामिमे रक्षकाः सौविदल्लाः । तिष्ठन्त्येषु पुरुषाः तेषां स्थानां दाराण पतयः पालकाः स्थापत्याः । सुविदचतुराखियस्तासां रक्षकाः सौविदाः । “तस्येदम्" इत्यण् ॥ ८ ॥ षण्ठः “शण्टः शण्डः षण्ड: " । वर्षवरः द्वे अन्तःपुरचारिणः क्लीबमा- त्रस्य "खोजा इति ख्यातस्य” | यदुक्तम् । “ये त्वल्पसत्त्वाः प्रथमाः क्लीनाथ स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः" इति । सेवक: अर्थी अनुजीवी त्रीणि सेवकस्य | विषयात्स्वदेशादनन्तरोऽव्यवहितो राजा शत्रुः स्यात् एकम् । अतः शत्रोः परं मित्रम् । राजान्तरेण व्यवहितो राजा मित्रं स्यादित्यर्थः एकम् ॥ ९ ॥ परतरः शत्रुमित्राभ्यां परो राजा उदासीनः स्यात् । अतिव्यवहित उदासीन इत्यर्थः एकम् । पृष्ठतः पश्चादेशे वर्तमानो राजा पाणिग्राहः | राशि शत्रुजयार्थ पुरतो गते यस्तद्राष्ट्र जिघ्न- क्षति स पृष्ठवर्ती पाणिग्राह इत्यर्थः एकम् । रिपुः वैरी सपनः अरिः द्विषन् द्वेषण: दुर्हदः ॥ १० ॥ द्विद् विपक्षः अहितः अमित्र: दस्युः शात्रवः शत्रुः अभिघाती अभियाती अभियातिश्चापि । “द्वेष्योऽभियातिरमित्रः" इति रत्न- कोशः । परः अरातिः प्रत्यर्थी परिपन्थी एकोनविंशति॒िर्नामानि शत्रोः । “सपनारिरिति समस्तमपि ” । द्विषन्तौ । दुईदौ । द्विषौ । अभिघातिनौ Dighized by Google