पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<] द्वितीय काण्डम्. मन्त्री धीसचिवोsमात्योऽन्ये कर्मसचिवास्ततः ॥ ४ ॥ महामात्राः प्रधानानि पुरोधास्तु पुरोहितः ॥ द्रष्टरि व्यवहाराणां प्राडिवाकाक्षदर्शकौ ॥ ५ ॥ प्रतीहारो द्वारपालदास्थांस्थितदर्शकाः ॥ रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ॥ ६ ॥ स्थायुको धिकृतो ग्रामे गोपो आमेषु भूरिषु ॥ मौरिकः कनकाध्यक्षो रूपाध्यक्षस्तु नैष्किकः ॥ ७ ॥ 4-7 धीप्रधानः सचिवो धीसचिवः । अमा सह समीपे वा भवः अमात्यः । “अमांतिकसहार्थयोः” इति कोशान्तरम् । “अव्ययात्यप् ” । ततो धीसचिवादन्ये कर्मोपयुक्ताः सचिवाः कर्मसचिनाः स्युरित्येकम् ॥ ४ ॥ महामात्राः प्रधा- नानि द्वे मुख्यानां राजसहायानाम् । “प्रधान इत्यपि ” । “महामात्रः प्रधानः स्यादू" इति पुंसकाण्डे बोपालितात् । महती मात्रा येषां ते महामात्राः । “मात्रा कर्णविभूषायां वित्ते माने परिच्छदे” इति मेदिनी | पुरोधाः पुरोहितः द्वे । व्यवहाराणां ऋणादिविषये वादिप्रतिवादिनिमित विवादानां द्रष्टरि निर्णे- तरि प्रदिवाकः अक्षदर्शकः इति द्वे “न्यायाधीश " इति ख्यातस्य । आद् च विनाकथ प्राडिवाको प्रश्नविवेकावस्य स्तः प्राडिवाकः । यदुक्तम् । "विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः । विचारयति येनासौ प्राडिवाक- स्ततः स्मृतः" इति । अक्षाणां व्यवहाराणां दर्शकः । “अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोः" इति विश्वः ॥ ५ ॥ प्रतीहारः “प्रतिहारः" द्वारपालः द्वास्यः द्वास्थितः दर्शकः पञ्च द्वारपालस्य । “द्वाःस्थः द्वाःस्थित इति सवि- सर्वोऽपि पाठः । द्वाःस्थितदर्शक इति समस्तमपि " | प्रतीहारेऽपि दर्शक इति रुद्रः । द्वारपो “द्वास्थितादर्शी" इति रभसः । रक्षिवर्गः अनीकस्थः द्वे राज- रक्षकगणस्य | अध्यक्षः अधिकृतः द्वे अधिकारी इति ख्यातस्य । “अघि अधिकं उपरि वा क्रियतेऽस्मात् अधिकृतः ” ॥ ६ ॥ एकस्मिन् ग्रामे अधि- कृतः स्वायुकः स्यात् " शेखदार इति ख्यातस्य " । भूरिषु बहुषु ग्रामेष्व- विकृतो गोप इत्येकम् “गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि | "ग्रामौ - घाधिकृते पुंसि शारिवारख्यौषधौ खियाम्" इति मेदिनी । भौरिकः कनका- ध्यक्षः द्वे स्वर्णाध्यक्षस्य । रूपाध्यक्षः नैष्किकः द्वे रूप्याधिकृतस्स ॥ ७॥ Digitized by Google